SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education यथाऽग्निसंनिधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोऽपि, तथा स्त्रीसन्निधौ नरः ॥ २९ ॥ नरः सविभ्रमस्त्रीभिः, खाद्यमानोऽपि हृष्यति । असिर्भवति तेजस्वी, घृष्यमाणोऽपि शाणया ॥ ३० ॥ अन्तर्विषमया ह्येता, बहिश्चैव मनोरमाः । गुञ्जाफलसमाकाराः, स्वभावादेव योषितः ॥ ३१ ॥ रक्ता हरन्ति सर्वस्वं प्राणानपि विरागतः । अहो रागविरागाभ्यां, कष्टं कष्टा हि योषितः ॥ ३२ ॥ नागरजातिरदुष्टा, शीतो वह्निर्निरामयः कायः । स्वादु च सागरसलिलं, स्त्री कृतज्ञेत्यसंभाव्यम् ॥ ३३ ॥ यो मूर्ध्नि विधृतः कुम्भः, पाशस्तस्यापि योषिता । विधीयते कण्ठपीठे, जलार्थ ही मृगीदशा ॥ ३४ ॥ उन्नयमाणा अखलिअपरक्कम सुपंडिआवि गुणकलिआ । महिलाहिं अंगुलीसु अ नच्चाविजंति तेवि नरा ॥ ३५ ॥ गंगाइ वालुअं सायरे जलं हिमवओ अ परिमाणं । जाणंति बुद्धिमंता, महिलाहिअयं न याति ॥ ३६ ॥ जल्पन्ति सार्द्धमन्थेन, पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चितयन्त्यन्यं, प्रियः को नाम योषिताम् ॥ ३७ ॥ एकं वक्त्रविलोकनेन वचनेनान्यं परं विभ्रमैर्भूभङ्गस्तनदर्शनप्रभृतिभिर्व्यामोहयन्ति स्त्रियः । इत्येवं कुटिलासु कृत्रिमकृतस्नेहामु तास्वप्यलं, किं रे चित्त ! रतिं करोषि विमुखं सिद्ध्यङ्गनासङ्गमात् ॥ ३८ ॥ चतुरः सृजता राजन्नुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥ ३९ ॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेर्ष्याचाटुभयार्थदानविषयक्रोधक्षमा मार्दवैः । लज्जायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैर्गृह्यन्ते न विभूतिभिश्च ललना दुःशी १ उन्नतमाना अस्खलितपराक्रमाः सुपण्डिता अपि गुणकलिताः । महेलाभिरङ्गुलिषु नत्यंते तेऽपि नराः गङ्गाया वालुकां सागरे जलं हिमवतश्च परिमाणम् । जानन्ति बुद्धिमन्तः महिलाहृदयं न जानन्ति ॥ ३६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy