________________
सूक्तमुक्तावल्यां
॥ ७४ ॥
णि तित्त माणु करि जित्तर पिअह सुहाइ । जइ लाखीणि वाहणी तो पहिरिज्जइ पाइ ॥ १६ ॥ आवर्त्तः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । अग्राह्यं यन्महद्भिर्नरवर वृषभैः सर्वमायाकरण्डं, स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् ? ॥ १७ ॥ अनृतं साहसं माया, मूर्खत्वमतिलोभता । निःस्नेहत्व निर्दयत्वे, स्त्रीणां दोषाः स्वभावजाः ॥ १८ ॥ प्रायः पुमांसः सरलस्वभावा, रण्डास्तु कौटिल्यकलाकरण्डाः । ताताद्य याचेत्कथमन्यथाऽस्मिन् काले वरं केकयनन्दनेयम् ॥ १९ ॥ आहारो द्विगुणः स्त्रीणां, निद्रा तासां चतुर्गुणा षड्गुणो व्यवसायश्च, कामश्चाष्टगुणः स्मृतः ॥ २० ॥ अनंता पावरासीओ, जाव उदयमागया । ताव इत्थीत्तणं पत्तं, संमं जाणाहि गोअमा ! ॥ २१ ॥ पापाकारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला, वक्त्रं चर्ममयं विगन्धि कलुषं मांसोत्कराभौ स्तनौ । जङ्घाद्यस्थिविभूषितं च सकलं यस्या विरूपं सदा, पश्यन्नप्ययमातनोति हृदये रागी कथं संमदम् ? ॥ २२ ॥ सुवंशजोऽप्यकृत्यानि कुरुते प्रेरितः स्त्रिया । स्नेहलं दधि मथ्नाति पश्य मन्थानको न किम् ? ॥ २३ ॥ गृहीत हस्तकः प्रेयान् प्रेयसीभिर्घरट्टवत् । भ्रमितः पितृमात्रादिस्नेहं दलयति क्षणात् ॥ २४ ॥ उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ २५ ॥ रे रे यन्त्रक ! मा रोदीः, कं कं न भ्रमयन्त्यमूः । भ्रूचापोत्क्षेपमात्रेण, कराकृष्टस्य का कथा ? ॥ २६ ॥ दर्शने हरते चित्तं, स्पर्शने हरते वलम् । संगमे हरते वीर्य, नारी प्रत्यक्षरा क्षसी ॥ २७ ॥ स्मृता भवति तापाय, दृष्टा तून्मादकारिणी । स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ? ॥ २८ ॥ १ अनन्ताः पापराशयो यदोदयमागताः । तदा स्त्रीत्वं प्राप्तं सम्यग् जानीहि गौतम ! ॥ २० ॥
Jain Education International
For Private & Personal Use Only
९९ स्त्रिया श्लो. ५०
॥ ७४ ॥
www.jainelibrary.org