SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ महिलास्वेण मंडिअंपासं । बझंति जाणमाणा, अयाणमाणावि बज्झंति ॥४॥ अहो संसारजालस्य, विपरीतो वध-| क्रमः । न पुनर्जडजन्तूनां, धीवरस्यापि बन्धनम् ॥ ५ ॥ मानो म्लायति पौरुषं विगलति क्लेशः समुन्मीलति, स्थैर्य । जीर्यति धैर्यमेति विपदं गम्भीरिमा भ्रस्यति । बुद्धिाम्यति न प्रशाम्यति रुजा चेतोऽधिकं ताम्यति, ब्रीडा क्लाम्यति ४ कामिनीमदिरया मत्तस्य पुंसो हहा ॥ ६॥ मदिरातो गुणज्येष्ठा, लोकद्वयविरोधिनी । कुरुते दृष्टिमात्रेण, महिला अहिलं जनम् ॥ ७॥ संसार! तव पर्यन्तपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥८॥स्मितेन भावेन मदेन लज्जया, परामुखैरर्द्धकटाक्षवीक्षितैः । वचोभिरीाकलहेन लीलया, समन्तपाशं खलु बन्धनं स्त्रियः॥९॥ संमोहयंति मदयन्ति विडम्बयन्ति, निर्भर्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां, किं नाम वामनयना न समाचरन्ति? ॥१०॥ सनूपुरालतकपादताडितो, दुमोऽपि यासां विकसत्यचेतनः। तदङ्गसंस्पर्शरसाद्रवीकृतो, विलीयते यन्न नरस्तदद्भुतम् ॥ ११ ॥ वातोद्धृतो दहति दहनो देहमेकं नराणां, मत्तो नागः कुपितभुजगो देहमेकं निहन्ति । ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान् , सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥ १२॥ पञ्चाननं परिभवत्युदरेण वेणीदण्डेन कुण्डलिकुलं शशिनं मुखेन । या सा जगत्रयजयप्रथिता नताङ्गी, बुद्ध्या कया बत बुधैरबला बभाषे? ॥ १३ ॥ हत्त्वा नृपं पतिमपेत्य भुजङ्गदष्टं, देशान्तरे विधिवशागणिकाऽस्मि जाता । पुत्रं भुञ्जगमधिगम्य चितां प्रविष्टा, शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ १४ ॥ दुरितवनघनाली शोककासारपाली, भवकमलमराली पापतोयप्रणाली । विकटकपटपेटी मोहभूपालचेटी, विषयविषभुजङ्गी दुःखसारा कृशाङ्गी ॥१५॥ माणि RS Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy