________________
वल्या
SAEXERCASSAGAR
हन्त पञ्चेषुपावकः॥ ५ ॥ किमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रिदशपतिरहल्यां तापसी यत्सिषेवे । हृदयतृण- ९८ कामे कुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डितोऽपि?॥ ६ ॥ विकलयति कलाकुशलं हसति शुचिं
श्लो. १० पण्डितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ॥७॥ शम्भूस्वयम्भुहरयो हरिणक्षणानां, येनाऽक्रि- M९९ स्त्रियां यन्त सततं गृहकर्मदासाः। वाचामगोचरचरित्रपवित्रिताय, तस्मै नमो बलवते कुसुमायुधाय ॥ ८॥ मत्तेभकुम्भदलने
| श्लो.५० भुवि सन्ति शूराः, केचित्रचण्डमृगराजवधेऽपि दक्षाः। किं तु ब्रवीमि बलिनां पुरतः प्रसह्य, कन्दर्पदर्पदलने विरला मनुष्याः॥९॥ अये चेतोमत्स्य! भ्रमणमधुना यौवनजले, त्यज स्वच्छन्दत्वं युवतिजलधौ पश्यसि न किम् ? । तनूजालीजालं स्तनयुगलतुम्बीफलयुतं, मनोभूकैवर्तस्तव मरणहेतोर्धमयति ॥ १०॥ स्त्रीसंबन्धिसूक्तानि ९९ | तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः । यावदत्र न कुरङ्गचक्षुषा, ताड्यते चटुललोचनाञ्चलैः ॥१॥ | सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिवाणाः पतन्ति ॥ २ ॥ कुङ्कुमपङ्ककलङ्कितदेहा, गौरपयोधरकम्पितहारा । नूपुरहंसरणपदपद्मा, कं न वशं कुरुते भुवि रामा? ॥३॥ संसारे हयविहिणा,
संसारे हतविधिना महिलारूपेण मण्डितः पाशः । बध्यन्ते जानाना अजानाना अपि बध्यन्ते ॥४॥
Jain Education intamational
For Privale & Personal use only
___www.jainelibrary.org