SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सू. मु. १३ शतापसहा भृशम् ॥ ११ ॥ हिअडा चोलमजीट्ठ जिम, तोले घणे चडेसि । रंगपसायें आपणे, परिभव घणां सहेसि ॥ १२ ॥ अकखाण रसणी कंमाण मोहनी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चउरो दुक्खेण जिप्पंति ॥ १३ ॥ वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनम् ॥ १४ ॥ क्व यामः कुत्र तिष्ठामः, किं कुर्मः किं न कुर्महे ? । रागिणश्चिन्तयन्त्येवं, नीरागाः सुखमासते ॥ १५ ॥ अपि चण्डानिलोद्भूततरङ्गितमहोदधेः । शक्येत प्रसरो रोद्धुं नानुरक्तस्य चेतसः ॥ १६ ॥ सिरि अंगारो सिंगारओत्ति जंपति तंपि जइ मुणिणो । ता नूण चंद्रबिंबाओ अग्गिवुट्ठी समुप्पन्ना ॥ १७ ॥ | कामसंबन्धिसूक्तानि ९८ दिवा पश्यति नो घूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवानक्तं न पश्यति ॥ १ ॥ न पश्यति हि जात्यन्धः, कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तो, अर्थी दोषं न पश्यति ॥ २ ॥ नान्यः कुनयादाधिर्व्याधिर्नान्यः क्षयामयात् । नान्यः सेवकतो दुःखी, नान्यः कामुकतोऽन्धलः ॥ ३ ॥ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, कामान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ ४ ॥ तावन्महत्त्वं पाण्डित्यं, कुलीनत्वं विवेकिता । यावज्वलति नाङ्गेषु, १ अक्षाणां रसना कर्मणां मोहस्तथा व्रतानां ब्रह्मचयं । गुप्सीनां च मनोगुप्तिश्चतस्रो दुःखेन जीयंते ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy