________________
९. दातरि | श्लो.८ ९१ याचके | श्लो. १४
सूक्तमुक्ता-याचकसंबन्धिसूक्तानि ९१. वल्यां ४ तावद्गुणा गुरुत्वं च, यावन्नार्थयते जनः । अर्थी चेत्पुरुषो जातः, क्व गुणाः क्व च गौरवम् ? ॥१॥ तावत्सर्वगुणालयः
पटुमतिः साधुः सतां वल्लभः, शूरः सच्चरितः कलङ्कविकलः कान्तः कलाज्ञः कविः । दक्षो धर्मरतः कुलीनविमलः प्राप्तप्रभावः प्रभुर्यावन्निष्ठरवज्रपातसदृशं देहीति नो भाषते ॥२॥ देहीति वचनं श्रुत्वा, देहस्थाः पञ्च देवताः। नश्यन्ति
तत्क्षणादेव, श्रीहीधीधृतिकीर्तयः॥३॥ अक्षरद्वयमभ्यस्तं, नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति, विपरीतमु*पस्थितम् ॥ ४ ॥ वरं जातो वने वृक्षः, पाषाणो वा वरं गिरौ । वरं पक्षी पतङ्गो वा, न पुनर्याचको नरः॥५॥गति
भङ्गः स्वरो दीनो, गात्रवेदो महाभयम् । मरणे यानि चिह्नानि, तानि चिह्नानि याचके ॥ ६॥ अदृष्टमुखभङ्गस्य, युक्तमन्धस्य याचितुम् । अहो एतन्महाकष्टं, चक्षुष्मानपि याचते ॥ ७॥ मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं न त्वणुस्त्वंशीकृत्य स एव चात्र शतशो राज्ञां गणैर्भुज्यते । ते दद्युदंदतेऽथवा किमपि न क्षुद्रा दरिद्रा भृशं, धिग् धिक् तान् पुरुषाधमान् धनलवं तेभ्योऽपि वाच्छन्ति ये ॥ ८॥ गुरुतामुपयाति यन्मृतः, पुरुषस्तद्विदितं मयाऽधुना । ननु लाघवहेतुरथिता, न मृते तिष्ठति सा मनागपि ॥९॥ लज्जावतः कुलीनस्य, धनं याचितुमिच्छतः । कण्ठे पारापतस्येव, वाक् करोति गताऽऽगतम् ॥ १०॥ दुक्खाण एउ दुक्खं गुरु गुरुआण हिअयमझमि । जंपि परो पत्थिज्जइ जंपि य परपत्थणाभंगो ॥११॥ तृणं लघु तृणात्तूलं, तूलादपि हि याचकः । वायुना किं न नीतोऽसौ ?, मामयं याचयिष्यति
1 दुःखानामेतद् दुःखं गुरु गुरूणां हृदयमध्ये । यदपि परः प्रार्थ्यते यदपि च परप्रार्थनाभङ्गः ॥११॥
SAREERS55ॐ
eH॥६८॥
Jan Education
For Private & Personal use only
T
ww.jainelibrary.org