SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ P॥१२॥ पृथ्व्या गुरुतरं किं? स्यान्नगादुच्चतरं किमु? । तृणाल्लघुतरं किं स्याद्वायोः शीघ्रतरं किमु? ॥ १३ ॥ पृथ्व्या गुरु तरी माता, नगादुच्चतरः पिता । तृणाल्लघुतरो ह्यर्थी, वायोः शीघ्रतरं मनः॥१४॥ दारिद्यसंबन्धिसूक्तानि ९२ । RT परीक्ष्य सत्कुलं विद्यां, शीलं शौर्य सुरूपताम् । विधिर्ददाति निपुणं, कन्यामिव दरिद्रताम् ॥१॥ हे दारिद्य नम स्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः। येन पश्याम्यहं सर्वे, न मां पश्यति कश्चन ॥२॥ वरं रेणुवरं भस्म, नष्टश्रीन पुनर्नरः। मुक्त्वैनं दृश्यते पूजा, क्वापि पर्वणि पूर्वयोः ॥ ३ ॥ मृतदुर्गतयोर्मध्ये, मृतः शस्यो न दुर्गतः। पूर्वो हि लभते वारि, तद्विन्दुमपि नोत्तरः॥४॥ निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकसहितो बुद्धेः परिभ्रश्यते, निर्बुद्धिः क्षयमेत्यहो निधनता सर्वोपदामास्पदम् ॥५॥ दौःस्थ्यं नाम पराभूतेः, स्थानमाद्यं न संशयः। राजाऽपि गोपतेः पादान , क्षीणः संसेवते यतः॥६॥ सहोदयव्ययाः पञ्च, दारिद्यस्यानुजीविनः । ऋणं दौर्भाग्यमालस्यं, वुभुक्षाऽपत्यसंततिः॥७॥ विपुलमतेरपि बुद्धिर्नश्यति पुरुषस्य विभवहीनस्य । घृतलवणतैलतण्डुलवस्त्रेन्धनचिन्तया सततम् ॥८॥जीवन्तो मृतकाः पञ्च, श्रूयन्ते किल भारते!। दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवेकः ॥९॥ अपुत्रस्य गृहं शून्यं, दिशः शून्या ह्यवान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ १०॥ नीचानपि निषेवन्ते, पोषयन्ति पशूनपि । समुद्रमपि लङ्घन्ते, दारिद्योपहता नराः ॥११॥ अम्बा तुष्यति न मया न स्नुषया साऽपि नाम्बया न मया । अहमपि न तया न तया वद राजन्! कस्य R-CARRORSCOCOCCASRO Jain Education a l For Privale & Personal use only Maw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy