________________
535
AMERICROCHORSRE
तरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजाप्रदं, भद्वादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥ ५॥ देवानां सदनं सुवर्णशिखरी सर्वसहा मेदिनी, रत्नानां निलयश्च कुम्भतनयोऽनन्तस्तथाऽहर्पतिः । स्वर्भाणुनिशितं सुदर्शनमथो ज्येष्ठः करः केशवः, सोऽयं श्रीपुरुषोत्तमोऽपि बलिना दानेन भिक्षुः कृतः ॥ ६॥ लक्ष्मीः कामयते मतिमंगयते कान्तिस्तमालोकते, कीर्तिश्चम्बति सेवते सुभगता नीरोगताऽऽलिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थितिर्मुक्तिर्वाञ्छति यः प्रयच्छति पुमान् पुण्यार्थमर्थ निजम् ॥७॥ पात्रविचारसूक्तानि ८८
नवगुप्तिसनाथेन, ब्रह्मचर्येण भूषिताः । दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः॥१॥ कृतकारितानुमतिप्रभेदा-1 रम्भवर्जिताः। मोकतानमनसो, यतयः पात्रमुत्तमम् ॥ २॥ प्रशान्ततनुवाकचित्ता, भैक्ष्यमात्रोपजीविनः । रताः परदहिते नित्यं, यतयः पात्रमुत्तमम् ॥ ३ ॥ सम्यग्दर्शनवन्तस्तु, देशचारित्रयोगिनः। यतिधर्मेच्छवः पात्रं, मध्यमं गृहमे
धिनः॥४॥ सम्यक्त्वमात्रसंतुष्टा, ब्रतशीलेषु निस्सहाः । तीर्थप्रभावनोद्युक्तास्तृतीयं पात्रमुच्यते ॥ ५॥ जं तवसंजमहीणं नियमविहूणं च बंभपरिहीणं । तं सीलसमं पतं बुद्धुतं बोलए अन्नं ॥ ६॥न वीतरागादपरोऽस्ति देवो, नब्रह्मचर्यादपरं तपोऽस्ति । नाभीतिदानात्परमस्ति दानं, चारित्रिणो नापरमस्ति पात्रम् ॥ ७॥ कुशास्त्रपाठमात्रेण, सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राया, अपात्रमिति संशिताः ॥ ८॥ स्वबुद्ध्या धर्मवन्तोऽपि, मिथ्यादर्शनदूषिताः।
१ यत्तपःसंयमहीनं नियमविहीनं च ब्रह्मपरिहीणम् । तत् शैलसमं पात्रं, झूढत् यत्यन्यम् ॥ ६ ॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org