SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- वल्यां ८८ पात्रे १७ ८९ पात्र २४ जिनधर्मद्विषो मूढाः, कुपात्रं स्युः कुतीर्थिनः॥९॥'युधिष्ठिरभीमसंवादे भीमेनोक्तं'-मूर्खस्तपस्वी राजेन्द्र !, वि. द्वांश्च वृषलीपतिः। उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते? ॥ १० ॥ युधिष्ठिरः प्राह-सुखासेव्यं तपो भीम!, विद्या कष्टदुराचरी । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ॥ ११॥ कृष्णः प्राह-न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमुभे चेमे, तद्धि पात्रं प्रचक्षते ॥ १२॥ तत्र न्यायार्जितं क्षेत्रकालभावैरदूषितम् । देयं धर्मार्थिना दानं, विना कीादिकारणम् ॥ १३ ॥ यतः-परान्नेनोदरस्थेन, यत्कुर्याच्च शुभाशुभम् । दायकस्य त्रयो भागाः, कर्ता भागेन लिप्यते ॥ १४ ॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु सर्वज्ञैः, कुत्रापि न निषिध्यते ॥ १५॥ यतः-वर्षन् क्षारार्णवेऽप्यब्दो, मुक्तात्मा क्वापि जायते । सततं ददतो दातुः, पात्रयोगोऽपि संभवेत् ॥ १६ ॥ अनादरो विलम्वश्च, वैमुख्यं विप्रियं वचः। पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्त्यलम् ॥ १७ ॥ अथ पात्रदानसंबन्धिसूक्तानि ८९ __ अभयं सुपत्तदाणं अणुकंपा उचिअ कित्तिदाणं च । दोहिवि मुक्खो भणिओ तिण्णिवि भोगाइ दिति ॥१॥ न कयं दीणुद्धरणं न कयं साहम्मिआण वच्छलं । हिअयंमि चीअराओ न धारिओ हारिओ जम्मो ॥२॥ दरिद्रं भर | अभयदानं सुपात्रदानमनुकम्पोचितकीर्तिदानानि च । द्वाभ्यामपि मोक्षो भणितस्त्रीपयपि भोगादिकं ददते ॥ १॥ न कृतं दीनोद्धरणं न कृतं साधर्मिकाणां वात्सल्यम् । हृदये वीतरागो न तो हा हारितं जन्म ॥२॥ 253455055055054250% ॥६६॥ Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy