SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां कुतोऽवसरः? ॥ २४ ॥ निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतविधिरिह ८७ दानसुस्थितं कमपि ॥ २५ ॥ अयमवसरः सरस्ते सलिलैरुपकर्त्तमर्थिनामनिशम् । इदमपि मुलंभमम्भो भवति पुरा जलध- फले ७ राभ्युदये ॥ २६ ॥ दाता सदैवाक्षयवैभवः स्याद्वनीपकस्तादृश एव निःस्वः। नद्यो भृता अप्यचिरेण रिक्ताः, कूपः पयोभिस्तु तथैव पूर्णः॥ २७ ॥ अदत्तदानाच्च भवेद्दरिद्री, दरिद्रभावाद्वितनोति पापम् । पापं हि कृत्वा नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥ २८ ॥ याचितश्चिरयसि व नु? वीर!, प्राणने क्षणमपि प्रतिभूः कः ? । शंसति द्विनयनी दृढनिद्रां, द्राग्निमेषमिषघूर्णनपूर्णा ॥ २९॥ याचमानजनमानसवृत्तः, पूरणाय वत जन्म न यस्य । तेन भूमिरतिभारवतीयं, न द्रुमैन गिरिभिर्न समुद्रैः॥३०॥ नाक्षराणि पठता किमपाठि, विस्मृतः किमथवा पठितोऽपि? । इत्थमर्थिचयसंशयदोलाखेलनं खलु चकार नकारः॥३१॥ दानफलसूक्तानि ८७ । धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूतेः। प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धेदर्दानं गुणानामिदमेकमोकः ॥१॥ दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्ततः पृथिव्यां प्रवरं हि दानम् ॥ २॥ दानेन चक्रित्वमुपैति जन्तुर्दानेन देवाधिपतित्वमुच्चैः । दानेन निःशेषयशोऽभिवृद्धिर्दानं शिवे धारयति क्रमेण ॥ ३ ॥ दानं मानवदानवेन्द्रपदवीविस्तारणं प्रत्यलं, दानं वासबसुन्दरीसरभसक्रीडाकलाकौशलम् । दानं ॥६५॥ मोक्षकपाटपाटनविधौ स्फुर्जत्सुरेन्द्रायुधं, दानं विष्टपजन्तुपुण्यनिवप्रासादसिंहध्वजः ॥ ४ ॥ पात्रे धर्मनिबन्धनं तदि-13i - Jain Education a l For Private & Personal Use Only C ww.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy