SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ न दत्तं धनमर्थिनाम् । तद्धनं नैव पश्यामि, प्रातः कस्य भविष्यति? ॥११॥ क्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं | रोहणो, रेण्वाऽऽवृत्य सुवर्णमात्मनि दृढं बध्या सुवर्णाचलः । श्मामध्ये च धनं निधाय धनदो विभ्यत्परेभ्यः स्थितः, किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ॥१२॥ ववसायफलं विहवो विहवस्स फलं सुपत्तविणिओगो । तयभावे ववसाओ बिहवोवि अ दुग्गइनिमित्तं ॥ १३ ॥ उत्पाद्य कृत्रिमान् दोषान् , धनी सर्वत्र वाध्यते । निर्धनः कृत दोषोऽपि, सर्वत्र निरुपद्रवः ॥ १४ ॥ पृथिव्यामम्बुपूर्णायां, चातकस्य मरुस्थली । सत्यमेतदृषेर्वाक्यमदत्तं नैव लभ्यते &॥ १५ ॥ मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कूपारामगवादीनां, ददतामेव संपदः॥ १६ ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १७ ॥ आयासशतलब्धस्य, प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य, दानमन्या विपत्तयः॥ १८ ॥ दातव्यं भोक्तव्यं सति विभवे संचयो न कर्त्तव्यः । पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये ॥ १९ ॥ प्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्तरम् । दत्तं श्रेयांसि संसूते, विष्ठा भवति भक्षितम् ॥ २० ॥ वितरति धनानि यावद्दाता सकलोऽपि कलकलस्तावत् । गलिते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः॥ २१॥ यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरः सवितापि भवत्यचाक्षुष्यः॥ २२ ॥ यदि भवति धनेन धनी क्षितितलनिहितेन भोगरहितेन । तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः॥ २३ ॥ अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियम् । विपदि नियतोदयायां पुनरुपकर्तुं १ व्यवसायफलं विभवो विभवस्य फलं सुपात्रविनियोगः । तदभावे व्यवसायः विभवोऽपि च दुर्गतिनिमित्तम् ॥ १३ ॥ Jain Education in For Privale & Personal use only Kilaw.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy