________________
८६ दाने
सूक्तमुक्तावल्या
॥६४।।
करिवरेण मदान्धबुद्ध्या । तस्यैव गल्लयुगमङ्गलहानिरेषा, भृङ्गाः पुनर्विकच पद्मवने चरन्ति ॥ ३६ ॥ प्रीति न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया, भीतः प्रत्युपकारकारणभयान्नो गृह्यते सेवया । मिथ्या जल्पति वित्तमार्गणधिया स्तुत्याऽपि न प्रीयते, कीनाशो विभवव्ययव्यतिकरत्रस्तं कथं प्राणिति? ॥ ३७ ।। दानोपदेशसंबन्धिसूक्तानि ८६ ___ संपत्ती नियमः शक्तौ, सहनं यौवने व्रतम् । दारिये दानमत्यल्पमपि लाभाय जायते ॥१॥निर्भाग्यविभवैर्वप्तं, सप्तक्षेत्र्यां न लभ्यते । यत्र पत्रादयोऽप्युप्ताः, फलं यच्छन्ति वाच्छितम् ॥२॥ सारं तदेव सारं नियोज्यते यजिनेन्द्रभवनादौ । अपरं पुनरपरधनं पृथ्वीमलखण्डपिण्डं वा ॥ ३ ॥ अतिथिर्यस्य भग्नाशो, गृहात्प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा, पुण्यमादाय गच्छति ॥४॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात्, शेषमभ्यागतं | विदुः॥ ५॥ जीवति स जीवलोके यस्य गृहाचान्ति नार्थिनो विमुखाः। भृतकवदन्यजनोऽसौ दिनानि पूरयति का| लस्य ॥ ६॥ बोधयन्ति न याचन्ते, भिक्षाहारा गृहे गृहे । याचकस्य प्रदातव्यमदत्तफलमीदृशम् ॥ ७॥ पश्चाद्दत्तं परैदत्तं, लभ्यते वा न लभ्यते । स्वहस्तेन च यद्दत्तं, लभ्यते तन्न संशयः॥८॥क्षुत्क्षामः पथिको मदीयभवनं पृच्छन् कुतोऽप्यागतस्तत्किं गेहिनि! किञ्चिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः । वाचाऽस्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः, स्थूलस्थूलविलोललोचनगलद्वाष्पाम्भसां बिन्दुभिः॥९॥ अहो पश्यतां दानजा कापि लीला, न भूता पुरा सा- म्प्रतं नो भवित्री। यया श्रेणिकोऽज्ञायि नो राजराजा, गृहेऽप्यागतः शालिना संगमेन ॥ १०॥ यन्मयाऽस्तमिते सूर्ये,
॥ ६४ ॥
Jain Education
na
For Privale & Personal use only
Diwww.jainelibrary.org