________________
Jain Education
| ष्पिताऽपि विफला काचित्तु जातिप्रभा । काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता, सर्वाङ्गं सुभगा रसाल| लतिकावत्पुण्यबीजाञ्चिता ॥ १० ॥ निर्द्रव्याणामयं व्ययविभागः - पादमायान्निधौ कुर्यात्सादं वित्ताय साधयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ ११ ॥ सद्रव्याणां त्वयम् - आयादर्द्ध नियुञ्जीत, धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छ मैहिकम् ॥ १२ ॥ आयव्ययमनालोच्य, यस्तु वैश्रमणायते । अचिरेणापि कालेन, स तु वै श्रमणायते ॥ १३ ॥ त्यागो गुणो वित्तवतां, वित्तं त्यागवतां गुणः । परस्परवियुक्तौ तु, वित्तत्यागौ विडम्बना ॥ १४ ॥ कृपणसंबन्धिसूक्तानि ८५
संकरः प्राप, समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य, भुवनोपरि गर्जति ॥ १ ॥ गौरवं प्राप्यते दानाद्रव्यस्य न तु संग्रहात् । स्थितिरुच्चैः पयोदानां, पयोधीनामधः पुनः ॥ २ ॥ अधः क्षिपन्ति कृपणा, वित्तं तत्र यियासवः । सन्तस्तु गुरुचेत्यादौ, समुच्चैः पदकाङ्क्षिणः ॥ ३ ॥ वनकुसुमं कृपणश्रीः कूपच्छाया सुरङ्गधूली च । तत्रैव यान्ति विलयं मनोरथा भाग्यहीनानाम् ॥ ४ ॥ शरणं किं प्रपन्नानि, विषवन्मारयन्ति किम् ? । न दीयन्ते न भुज्यन्ते, कृपणेन धनानि यत् ॥ ५ ॥ न दातुं नोपभोक्तुं वा, शक्नोति कृपणः श्रियम् । किंतु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ ६ ॥ प्रतिकूलो विधिस्तेषां निर्धना ये विनिर्मिताः । प्रतिकूलतमस्तेषु, सतोऽर्थान् ददते न ये ॥ ७ ॥ जणु आवतउ म वारि, पुन्नहिं लब्भइ एहु दिणु । कोइ न चडसिई वारि ओहटु लेसिइ जइ विहवु ॥ ८ ॥ परवित्तव्ययं वीक्ष्य, खिद्यन्ते नीच
For Private & Personal Use Only
%%
www.jainelibrary.org