SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्या ॥ ६२ ॥ Jain Education 146 न्यगण्यं च तत्र तिष्ठाम्यहं सदा ॥ २२ ॥ द्यूतपोषी निजद्वेषी, धातुर्वादी सदालसः । आयव्ययस्यानालोची, तत्र तिष्ठाम्यहं सदा ॥ २३ ॥ श्रीदारिद्रयोर्विवादसूक्तानि ८४ शिरस्सु पुष्पं चरणौ सुपूजितौ, निजाङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्वमैथुनं चिरप्रणष्टां श्रियमानयन्त्यलम् ॥ १ ॥ दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥ २ ॥ नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं च गुणग्रहव्यसनिता द्वेषश्च दोषाकरे, यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ३ ॥ किं तया क्रियते लक्ष्म्या !, विदेशगमनेन या । अरयो यां न पश्यन्ति, बन्धुभिर्या न भुज्यते ॥ ४ ॥ किं तया क्रियते लक्ष्म्या ?, या वधूरिव केवला । या च वेश्येव सा मान्या, पथिकैरपि भुज्यते ॥ ५ ॥ सत्यैकभूषणा वाणी, विद्या विरतिभूषणा । धर्मैकभूषणा मूर्तिर्लक्ष्मीः सद्दानभूषणा ॥ ६ ॥ सा लक्ष्मीर्या धर्मकर्मोपयुक्ता, सा लक्ष्मीर्या बन्धुवर्गोपभोग्या । सा लक्ष्मीर्या स्वाङ्गभोगप्रसङ्गा, याऽन्या मान्या सा नु लक्ष्मीरलक्ष्मीः ॥ ७ ॥ उत्पादिता स्वयमियं यदि तत्तनूजा, तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्यसंगमवती च तदा परस्त्री, तत्त्यागबद्धमनसः सुधियस्ततोऽमी ॥ ८ ॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी, संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा, ध | स्थान नियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥ ९ ॥ काचिद्वालुकयन्महीतलगता मूलच्छिदाकारणं, द्रव्योपार्जन पु tional For Private & Personal Use Only ८४ श्रीदारियो १४ ॥ ६२ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy