SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ RECRUG 40AM-DASE नाम् । उपदिशति कामिनीनां, यौवनमद एव ललितानि ॥९॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुत-13 वान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १० ॥ जाई रूवं विजा तिण्णिवि निवडंतु कंदरे विवरे । अत्थुच्चिअ परिवहउ जेण गुणा पायडा हुंति ॥ ११॥ समाश्रयन्ति सर्वेऽपि, प्रायेण विभवं गुणाः। गुणश्चटति चापेऽपि, कोटिद्वयसमन्विते ॥ १२ ॥ मातृकावर्णपाठेऽपि, शकारो वक्रकन्धरः । नूनं जनः समोऽप्येष, लवसंमुखमीक्षते ॥ १३ ॥ वन्द्यते यदवन्द्योऽपि, यदपूज्योऽपि पूज्यते । गम्यते यदगम्योऽपि, स प्रभावो धनस्य तु ॥ १४ ॥ विद्यावृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्कराः ॥१५॥ वारांराशिरसौ प्रसूय भवती रत्नाकरत्वं गतो, लक्ष्मि! त्वत्पतिभावमेत्य मुरजिजातस्त्रिलोकीपतिः । कन्दो जनचित्तरञ्जन इति त्वनन्दनत्वादभूत् , सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः ॥ १६ ॥ सर्वासामपि नारीणां, मध्ये श्रीः सुभगा खलु । स्पृहयन्ति महान्तोऽपि, यां स्वेच्छाचारिणीमपि ॥ १७॥ स्त्रैणभूषणमणेः कमलाया, यल्लपन्ति चपलेत्यपवादम् । दूषणं जलनिधेर्जनिकर्तुर्यत्पुराणपुरुषाय ददौ ताम् ।। १८ ॥ नयेन नेता विनयेन शिष्यः, शीलेन लिङ्गी प्रशमेन साधुः। जीवन देहः सुकृतेन देही, वित्तेन गेही रहितो न किञ्चित् ॥ १९॥ वरं वनं व्याघ्रगणेनिषेवितं, दुमालये पत्रफलैश्च भोजनम् । तृणैश्च शय्या वसनं च वल्कलं, न वन्धुमध्ये धनहीनजीवितम् ॥ २० ॥ गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र, तत्र शक्र! वसाम्यहम् ॥ २१॥ प्रीतिर्यत्र निजैर्गेहे, देहसत्त्वं सुसंभृतम् । पुण्यमात्म १ जातिः रूपं विद्या श्रीण्यपि निपतन्तु कन्दरे पाताले । अर्थ एव परिवर्धतां येन गुणाः प्रकटा भवन्ति ॥ ११ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy