________________
KAROCEMOCRACLOCALCONCEROLOG
परिग्रहसंवन्धिसूक्तानि ७८
क्षेत्रं वास्तु धनं धान्यं, कुप्यं शयनमासनम् । द्विपदः पशवो भाण्डा, बाह्या दश परिग्रहाः॥१॥ दायादाः स्पृहमायन्ति तस्करगणा मुष्णन्ति भूमीभुजो, गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयति क्षितौ विनिहितं यक्षा हरन्ते हठात् , दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ॥२॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ॥३॥ क्लेशाय विस्तराः सर्वे, संक्षेपास्तु सुखावहाः । परार्थं वि. स्तराः सर्वे, त्यागमात्महितं विदुः॥४॥ यथा यथा महत्तन्त्रं, विस्तरश्च यथा यथा । तथा तथा महदुःखं, सुखं च न तथा तथा ॥५॥ अनन्तैः पार्थिवैर्भुक्ता, कालेनोवीं धनानि च । मेलितानि परं त्यक्त्वा, गतास्ते स्वकृतैः सह ॥ ६॥
गोशतादपि गोक्षीरं, मानं मूढशतादपि । मन्दिरे मञ्चकस्थानं, शेषाः परपरिग्रहाः ॥७॥ निद्राच्छेदसखेदवान्धवजने ४ सोद्वेगवैद्योज्झितः, पथ्यकाथकथार्दितः परिजनैस्तन्द्रीभवन् क्षोभतः । भग्नस्वास्थ्यमनोरथप्रियतमावष्टब्धपादद्वयः, पपर्यन्ते विवशः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥ ८॥ ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्कर, यन्मुञ्चन्त्युपभो
गभाज्यपि धनान्येकान्ततो निःस्पृहाः । न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो, वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः॥९॥ क्रीडोद्यानमविद्यानां, वारिधिर्व्यसनाम्भसाम् । कन्दस्तृष्णामहाबल्लेरेक एव परिग्रहः ॥१०॥प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः, पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः, केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ ११ ॥
Jain Educatio
n
al
For Privale & Personal use only
N
w
.jainelibrary.org