SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॥ ५३ ॥ सूक्तमुक्ता-लिंति दाणाई । दुण्णिवि अमुणिअसारा दूसमसमयंमि बुडुंति ॥ १९ ॥ गुरुरेव विजानाति, कृत्याकृत्यविवेचनम् वल्यां 2 मक्षिका वमनी प्रोक्ता, तद्विष्ठा छर्दिनाशिनी ॥ २० ॥ जिणवरवयणसिलाइहं जाहं नवि विद्धा कन्न । माणसवेसिं गोरूअं, ताहं नवि बुद्धि न सन्न ॥ २१ ॥ विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । विना प्रदीपं शुभलोचनोऽपि, निरीक्षते कुत्र पदार्थसार्थम् ? ॥ २२ ॥ अवद्यमुक्ते पथि यः प्रवर्त्तते, प्रवर्त्तयत्यन्यजनं च निःस्पृहः । स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥ २३ ॥ विदलयति कुबोधं बोधयत्यागमार्थं, सुगतिकुगतिमागौं पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ २४ ॥ इहलोकविधीन् कुरुते स्वयं जनो न तु गुरुं विना धर्मम् । अश्वो हि तृणान्यत्ति स्वयं घृतं पाय्यतेऽन्येन ॥ २५ ॥ पूर्व वीर जिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्त्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्, पीत्वा यस्य वचःसुधां स परमः श्री हेमसूरिगुरुः ॥ २६ ॥ एकादशाश्वलक्षाणि, गजेन्द्राणां शतानि च । पत्तिकोट्यो द्वादश स्यू, रथाः पञ्चायुतीमिताः ॥ २७ ॥ आज्ञावर्त्तिषु मण्डलेषु विपुलेप्यष्टादशस्वादरादव्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्त्तिस्तम्भनिभांश्चतुर्दशशती संख्यान् विहारांस्तथा, जैनान्निर्मितवान् कुमार नृपतिईव्यव्ययं भूरिशः ॥ २८ ॥ धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनरसचान्दनसर्शः ॥ २९ ॥ धन्नाण चेव गुरुणो आएसं दिति गुणमहोदहिणो । चंदणरसो अपुष्णाण निवडए नेव अंगंमि ॥३०॥ ४ ॥ ५३ ॥ १ धन्यानामेव गुरव आदेशं ददति गुणमहोदधयः । चन्दनरसोऽपुण्यानां निपतति नैवाङ्गे ॥ ३० ॥ Jain Education For Private & Personal Use Only ६८ गुरौ श्लो. ३६ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy