________________
उ० बिम्बकारणानन्तरं प्रतिष्ठा विधास्येति तद्विधिमाह निष्पन्नस्येत्यादि । एवमुक्तविधिना निष्पन्नस्य जिनबिम्बस्याशु शीघ्र प्रतिष्ठोदिता दशदिवसाभ्यन्तर एव सप्तम्यर्थे तसूप्रत्ययः सा च प्रतिष्ठा समासेन सङ्केपेण त्रिविधा त्रिभेदा ॥१॥ है त्रैविध्यमेवाह ॥ व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च। यस्तीर्थकृद्यदा किल तस्य तदायेति समयविदः॥२॥
य० व्यत्याख्या खल्वेका वक्ष्यमाणा क्षेत्राख्या च । तथैवापरा महाख्या च महाप्रतिष्ठा । व्यक्त्याख्यास्वरूपमाह यस्तीर्थकृद्यदा किल वर्तमान इत्यर्थस्तस्य तदाद्येति समयविदस्तस्यैव प्रतिष्ठा व्यक्त्याख्या ॥२॥ | उ० त्रैविध्यमेवाह । व्यत्याख्येत्यादि । एका खलु व्यक्त्याख्याऽपरा क्षेत्राख्याऽपरा च महाख्या तत्र व्यक्तिप्रतिष्ठास्वरूपमाह । यस्तीर्थकृद् यदा किल वर्त्तमानतीर्थाधिपतिस्तस्य तदा तत्काले आद्या व्यक्तिप्रतिष्ठेति समयविदो ब्रुवते ॥२॥
क्षेत्राख्यामाह ॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया। सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥३॥ _ य. ऋषभाद्यानां तु तथा तीर्थकृतां चतुविशतेः सर्वेषामेव मध्यमा ज्ञेया । भरतैरावतयोश्चतुविशत्युत्पत्तेः । ततः क्षेत्रापेक्षया क्षेत्राख्या सप्तत्यधिकशतस्य तु महाविदेहभरतैरावतापेक्षया सर्वक्षेत्राङ्गीकरणेन चरमेह प्रतिष्ठेति गुणनिष्पनाभिधाना ॥३॥ | उ० क्षेत्राख्यामाह । ऋषभेत्यादि । ऋषभाद्यानां तु सर्वेषामेव तीर्थकृतां तथा तेनरूपेण प्रतिष्ठा मध्यमा क्षेत्राख्या ज्ञेया
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org