SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education जिनबिम्बकारणविधिरभिधीयत इत्युक्तं तद्गतमेव विशेषमाह ॥ मन्त्रन्यासश्च तथा प्रणवनमः पूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् ॥ ११ ॥ य० मन्त्रन्यासश्च तथा जिनबिम्बे कारयितव्यतयाभिप्रेते मन्त्रस्य न्यासो विधेयः कः पुनः स्वरूपेण मन्त्र इत्याह । प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयः प्रणव ॐकारो नमः शब्दश्च तौ पूर्व्वावादी यस्य तत्प्रणवनमः पूर्व्वकं तस्य विवक्षितस्य ऋषभादेर्नाम तन्नाम मन्त्रः परमः प्रधानो ज्ञेयो वेदितव्यः किमित्याह । मननत्राणे ह्यतो नियमात् हिर्यस्मादतः प्रणवनमः पूर्वकान्नाम्नः सकाशात् ज्ञानरक्षणे नियमाद्भवत इति कृत्त्वा मन्त्र उच्यते तन्नामैवेति ॥ ११ ॥ उ० विम्बकारणविधिशेषमाह मन्त्रेत्यादि । तथा कारयितव्यतयाऽभिप्रेते जिनबिम्बे मन्त्रन्यासश्च विधेयः कः पुनः स्वरूपेण मन्त्र इत्याह प्रणव ॐकारो नमः शब्दश्च तौ पूर्वावादी यस्य तत्तथा तन्नाम क्रियमाणविम्वर्षभादिनाम मन्त्रः परमः प्रधानो ज्ञेयः हि यतोऽतः प्रणवनमः पूर्वजिननाम्नो नियमान्निश्चयान्मननात्राणाच्च मन्त्र उच्यत इति ॥ ११ ॥ ननुच रत्नकनकादिभिः सुरूप महाबिम्ब करणैर्विशिष्टं फलमाहोस्वित् परिणामविशेषादित्याशङ्कयाह ॥ बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् १२ य० विम्बं प्रतिमारूपं महत्प्रमाणतः सुरूपं विशिष्टाङ्गावयवसन्निवेशसौन्दर्य कनकादिमयं च चतुर्वर्ण (सुवर्ण) रत्नादिमयं च यः खलु विशेषो बाह्यवस्तुगतः नास्मात्फलं विशिष्टमस्मादेव विशेषान्न फलविशेषो न फलमधिकं नैतदविनाभावि फलमित्यर्थः भवति तु भवत्येव तद्विशिष्टं फलमिह प्रक्रमे आशयविशेषात् यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम् ||१२|| For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy