SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीषो. ७ Jain Education अस्मिन् व्यतिकर इत्युक्तं तमेवाश्रित्याह ॥ एष द्वयोरपि महान् विशिष्टकार्यप्रसाधकत्वेन । संबन्धं इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ॥ ५ ॥ ० एपयोगो द्वयोरपि पूर्वोक्तयोर्म्महान् गुरुर्विशिष्टकार्यप्रसाधकत्वेन जिनविम्बनिर्व्वर्त्तकत्वेन । इह संबन्धे क्षुण्णं | वैकल्यं न मिथः परस्परं सन्तः सत्पुरुषाः प्रशंसन्ति स्तुवन्ति ॥ ५ ॥ उ० अविनष्टचित्तसंबन्धंस्तुवन्नाह । एषेत्यादि । एष परस्परमविनष्टचित्तयोगो द्वयोरपि प्रागुक्तयोर्विशिष्टकार्यस्य | फलवज्जिनबिम्बलक्षणस्य प्रसाधकत्त्वेन निर्विघ्ननिर्वर्तकत्त्वेन महान् गुरुः । इह संबन्धे क्षुण्णं वैकल्यं मिथः परस्परं सन्तः सत्पुरुषा न प्रशंसन्ति स्तोकस्यापि चित्तभेदस्य फलहानिकरत्त्वादितिभावः ॥ ५ ॥ जिनबिम्बकारणे भावप्राधान्यमुररीकृत्याह ॥ यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् । तद्विम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥ ६ ॥ य० यावन्तो यत्परिमाणाः परितोषाः प्रीतिविशेषाः कारयितुरधिकृतस्य तस्य समुद्भवा विम्बसमुद्भवाः केचित्केऽपि चि - च्छन्दोऽप्यर्थे तद्विम्बकारणानि जिनबिम्ब निर्वर्त्तनानीह प्रक्रमे तस्य कारयितुस्तावन्ति तत्परिमाणानि तत्त्वेन परमार्थेन ॥६॥ उ० जिनबिम्बकारणे भावप्राधान्यं पुरस्कुर्वन्नाह । यावन्त इत्यादि । यावन्तो यत्परिमाणाः परितोषाः प्रीतिविशेषाः । कारयितुरधिकृतस्य तत्समुद्भवा विम्वनिमित्तजनिताः केचित्केऽपि चिच्छन्दोप्यर्थे इह प्रक्रमे तस्य कारयितुस्तद्विम्बकार For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy