________________
श्रीषोडश
प्रकरणम्.
॥ ३६ ॥
Jain Education I
य० इतरस्य स्त्रीमद्यद्यूतादिव्यसनवतो नार्पणं तथा क्रियते यथाऽनघस्य युक्त्या लोकन्यायेन वक्तव्यमेव मूल्यमिति इति एवं स्वरूपं मूल्यमिदं वक्तव्यं काले च प्रस्तावे च दानमुचितं मूल्यस्येति गम्यते । शुभभावेनैव नाशुभभावेन विधिपूर्व्वमविधिपरिहारेण ॥ ३ ॥
उ० अनघस्येति विशेषणव्यवच्छेद्यं साक्षादाह । नेत्यादि । इतरस्य स्त्रीमद्यद्यूतादिव्यसनवतोऽर्पणं तथा न कर्त्तव्यं यथाऽनघस्यानधिकारिणि तदर्पणस्यान्याय्यत्वात् युक्त्यैव लोकन्यायेनैवेत्येवं स्वरूपं यथावस्थं मूल्यं वक्तव्यं नतु न्यूनाधिकं काले च प्रस्तावे च दानमुचितं मूल्यस्येति गम्यते शुभभावेनैव विधिपूर्वमविधिपरिहारेण ॥ ३ ॥
सव्यसनं प्रति किमेवमुपदिश्यत इत्याह ॥
चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि । अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः ॥ ४ ॥
० चित्तविनाशः चित्तकालुष्यं, नैवं, उक्तनीत्या प्रायो बाहुल्येन सञ्जायते द्वयोरपि हि कारयितृवैज्ञानिकयोरस्मिन्प्रस्तुते व्यतिकरे संबन्धे एष चित्तविनाशश्चित्तभेदः प्रतिषिद्धो निराकृतो धर्म्मतत्त्वज्ञैर्द्धर्म्मस्वरूपवेदिभिः ॥ ४ ॥
उ० किमित्येवं सव्यसनस्यार्पणं निषिज्यत इत्यत्र हेतुमाह । चित्तेत्यादि । एवमुक्तनीत्या चित्तविनाशश्चित्तकालुष्यं द्वयोरपि हि कारयितृवैज्ञानिकयोरनुशयोपालंभाभ्यां न सञ्जायते प्रायो बाहुल्येन अस्मिन् व्यतिकरे प्रस्तुतशुभकार्यारंभे एष चित्तविनाशः प्रतिषिद्धो विपरीतफलत्त्वेनोपदिष्टो धर्मतत्त्वज्ञैर्द्धर्म्मस्वरूपवेदिभिः ॥ ४ ॥
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ ३६ ॥
jainelibrary.org