SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Jain Education द्ययोः कार्ययोः प्रत्युपेक्षणस्यावलोकनस्य विधानात्तथाहि "एतदृष्ट्वार्हतं चैत्यमने के सुगतिं गताः । यास्यन्ति बहवश्चान्ये ध्यान| निर्धूतकल्मषाः ॥ १ ॥ यात्रास्नात्रादिकर्मेह भूतमन्यच्च भावि यत् । तत्सर्वं श्रेयसां वीजं ममार्हच्चैत्यनिर्मितौ ॥ २ ॥ साधु जातो विधिरयं कार्योऽतः परमेष मे । अर्हचैत्येष्विति ध्यानं श्राद्धस्य शुभवृद्धये ॥ ३ ॥ अहंपूर्विकया भक्ति ये च कुर्वन्ति | यात्रिकाः । तेऽपि प्रवर्द्धयन्त्येव भावं श्रद्धानशालिनाम् ॥ ४ ॥ एवमुक्तद्वारशुद्ध्या क्रियमाणं जिनभवनं प्रशस्तमिह समये जैनसिद्धान्ते प्रदर्शितम् ॥ १३ ॥ किमिति शस्तं निदर्शितमित्याह ॥ एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमं । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥ १४ ॥ ० एतज्जिनभवनमिह लोके भावयज्ञो भावपूजा सद्गृहिणः सद्गृहस्थस्य जन्मफलमिदं परमं जन्मफलमिदं प्रधानं वर्त्तते अभ्युदयाऽव्युच्छित्त्या अभ्युदयस्य स्वर्गादेरव्यवच्छेदेन सन्तत्या नियमादपवर्गबीजमिति नियमेनापवर्गस्य मोक्षस्य कारणमिति कृत्वा ॥ १४ ॥ उ० किमिति शस्तं निदर्शितमित्याह । एतदित्यादि । एतज्जिनभवनविधानमिह लोके भावयज्ञो यजेर्देवपूजार्थत्त्वाद्भावपूजा द्रव्यस्तवस्याप्यस्योक्तविधिशुद्धिद्वाराज्ञाराधनलक्षणभावपूजागर्भितत्त्वात् सद्गृहिणः सद्गृहस्थस्य जन्मनः फलमिदं | परमं प्रधानमाजन्मार्जितधनस्यैतावन्मात्रसारत्त्वात् अभ्युदयस्य स्वर्गादेरव्यवच्छेदेन सन्तत्या नियमान्निश्चयेनापवर्गतरो| मोक्षवृक्षस्य बीजमेतत् ॥ १४ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy