SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्धयसमेतम. प्रकरणम्. ॥३३॥ स्वाशयवृद्धिरित्युक्तं तत्र कः खाशय इत्याह ॥ देवोद्देशेनैतगृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः खाशय इति गीयते तज्ज्ञैः ॥ १२॥ या देवोद्देशेन देवाभिसन्धिना । एतन्जिनभवनं गृहिणां कर्त्तव्यं विधेयमित्यलं, शुद्धो दोषरहितोऽनिदानः खलु भावो निदानरहित एव भावोऽध्यवसायः स्वाशय इति गीयते तज्ज्ञैः शुभाशय इत्युच्यते तद्वेदिभिः॥ १२॥ उ० अथ स्वाशयवृद्धिर्वाच्या तत्र कः स्वाशय इत्याह । देवेत्यादि । देवोद्देशेन जिनभवनभक्त्यभिसन्धिमात्रेणैतन्जिनभवनं गृहिणां कर्तव्यं नत्त्वैहिकादिफलाभिलाषेण इत्येषोऽलमत्यर्थ शुद्धो निर्दोषोऽनिदानः खलु निदानरहित एव भावोऽध्यवसायः स्वाशयः शुभाशय इति गीयते तजस्तद्वेदिभिः ॥ १२ ॥ । अधुना वृद्धिमाह ॥ प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात्। एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ॥१३॥ ___ य० प्रतिदिवसमस्य कुशलाशयस्य वृद्धिरभ्युदयरूपा । कृताकृतप्रत्युपेक्षणविधानात् । इदं कृतं निर्वतितमिदमकृतं करणीयमद्यापि भाविनि काले तयोः प्रत्युपेक्षणमवलोकनं तद्विधानात् । यथोक्तं फलद्वारेण । “प्रशान्ताः सुगतिं यान्ति संयताः स्वर्गगामिनः। शांतायतनकर्तृणां सदा पुण्यं प्रवर्द्धते ॥१॥" एवमुक्तेन न्यायेनेदं जिनभवनं क्रियमाणं विधीयमानं, शस्तं प्रशस्तमिहाधिकारे निदर्शितं नितरां दर्शितमनुज्ञातं, समये सिद्धान्ते ॥ १३ ॥ | उ० एतद्बुद्धिमाह । प्रतीत्यादि । प्रतिदिवसमस्य कुशलाशयस्य वृद्धिः कार्या कृताकृतयोरेतत्प्रतिबंधेन निष्पन्ननिष्पा Jain Education international For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy