SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ टीकाद्वय समेतम्. श्रीषोडश- | उ० दलविशेषमाह । दार्वपि चेत्यादि । दार्वपि चेह जिनभवनविधाने शुद्धं तद् ज्ञेयमितिगम्यम् । यत्नानीतं देवतादीनां देव्यादीनामुपवनं समीपवर्ति वनं तदादेः प्रथमादिपदात्पुंदेवग्रहः द्वितीयादिपदात्तिर्यमनुष्यसंबन्धिकाननग्रहः तथा प्रगुप्रकरणम्. पदणमवक्रं सारवत् स्थिरं खदिरसारवत् अभिनवं प्रत्यग्रं न जीर्ण उच्चैरतिशयेन ग्रन्थ्यादिभिर्दोषै रहितम् ॥८॥ ॥३२॥ विधिनेत्युक्तं तमेवाह ॥ सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ ९॥ __यसर्वत्रेष्टकादौ शकुनपूर्व शकुनमूलं ग्रहणादावत्र वर्तितव्यमिति ग्रहणानयनादौ प्रवर्तितव्यं नान्यथा कः पुनः शकुन इत्याह । पूर्णकलशादिरूपो जलपरिपूर्णघटदूर्जाभारोद्धृतमृत्तिकादिरूपः अयं च बाह्य इत्यान्तरपरिग्रहार्थ विशेषण|माह । चित्तोत्साहानुगः शकुनः मनःसमुत्साहमनुगच्छति ॥९॥ | उ० दलं विधिनानीतमित्युक्तं तत्र विधिगतमेवाह । सर्वत्रेत्यादि । अत्र जिनभवनलक्षणमहाकार्यारंभे सर्वत्रेष्टकादौ ग्रहणादौ ग्रहणानयनादौ शकुनपूर्व शकुनमूलं यथा स्यात्तथा प्रवर्तितव्यं नान्यथा । कः पुनः शकुन इत्याह । पूर्णकलशो जलपरिपूर्णघटस्तदादिरूप आदिना दधिदूर्वाक्षतभारोद्धृतमृत्तिकादिग्रहणं अयं च बाह्य इत्यांतरपरिग्रहार्थं विशेषणमाह । चित्तोत्साहानुगो मनःप्रत्ययानुसारी शकुन इदमुपलक्षणं गुरुवचनानुगतत्त्वस्याप्यन्यत्रात्मप्रत्ययगुरुप्रत्ययशकुनप्रत्ययैस्त्रिधा शुद्धस्य कार्यस्य सिद्ध्युन्मुखत्त्वप्रतिपादनादिति द्रष्टव्यम् ॥९॥ ॥३२॥ Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy