SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ३१ ॥ Jain Education परपीडात्यागेन च परोपतापविरहेण च विपर्ययात्पापसिद्धिरिव शास्त्राऽबहुमानासच्चेष्टापरपीडालक्षणाद्विपर्ययात्पापसिद्धिरिव पापनिष्पत्तिरिव कारणत्रयाद्धर्म्मनिष्पत्तिर्भवतीति ॥ ५ ॥ उ० किमित्येवमुपदिश्यत इत्याह । शास्त्रेत्यादि । शास्त्रस्य प्रकृतविध्युपदेशकस्य वास्तुशास्त्रादेः बहुमानतः खलु बहु|मानादेव सच्चेष्टातश्चोत्पन्नपराभिभवत्यागप्रधानोद्यमाच्च परपीडायाः परोपतापस्य त्यागेन भाविनोऽनुत्पादेन च धर्म्मनिष्प- 4 त्तिर्भवति विपर्ययादुक्तविपरीतहेतुत्र्याच्छास्त्राबहुमानासच्चेष्ट । परपीडालक्षणात्पापस्य सिद्धिरुत्पत्तिरिव यद्विपर्ययः पापहेतुः स धर्महेतुरिति न्यायगतिः ॥ ५ ॥ न केवलमेवमित्थं च धर्मनिष्पत्तिरित्याह ॥ तत्रासन्नोऽपि जनोऽसंबन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो नियमाद्बोध्यं गमयमस्य ॥ ६ ॥ य० तत्रासन्नोपि जनो यस्तद्देशवर्ती असंबन्ध्यपि स्वजनादिसंबन्धरहितोऽपि, दानमानसत्कारैः दानमन्नपानवस्त्रादेम्र्मानो मान्यत्वं, सत्कारः सक्रिया आसनप्रदानादिरूपा तैः । कुशलाशयवान् कार्यो जन इति वर्त्तते नियमान्नियमेन । वोधेरंगं कारणमयं कुशलाशयोऽस्य जनस्य बोधिलाभ हेतुः कुशलाशयो भवति जनस्येति यावत् ॥ ६ ॥ ० अन्यदपि तदा धर्मसिद्ध्यङ्गमाह । तत्रेत्यादि तत्र जिनभवनारंभ आसन्नोऽपि यस्तद्देशवर्त्ती जनोऽसंबन्ध्यपि स्वजनादि संबंधरहितोऽपि सोऽपि दानमन्नपानवस्त्रादिवितरणं मानोऽभ्युत्थानादिक्रिया सत्कार आसनप्रदानादिव्यापारस्तैः कृत्वा For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ३१ ॥ janelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy