________________
Jain Education In
विधिसेवा दानादावित्युक्तं तत्र महादानदानयोर्विशेषाभिधित्सयेदमाह ॥
न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ॥ १३ ॥
य० न्यायात्तं ब्राह्मणक्षत्रियविट्शूद्राणां स्वजातिविहितन्यायोपात्तं स्वल्पमपि हि स्तोकमपि हि, भृत्यानुपरोधतो भृत्यानुपरोधेन पोष्यवर्गाविघातेन, महादानं विशिष्टदानं, दीनतपस्व्यादौ विषये, गुर्व्वनुज्ञया पित्रादिकुलपुरुषानुज्ञया, यदेवं विशेषणं तन्महादानं । दानमन्यत्तु न्यायानुपात्तभृत्योपरोधादिना विपर्ययेण दीयमानमन्यत्पुनद्दनमेव भवति ॥ १३ ॥ उ० दानादिविधिसेवायां महादानदानयोर्विशेषमाह । न्यायात्तमित्यादि । न्यायेन ब्राह्मणक्षत्रियविट्शूद्राणां स्वजातिविहितव्यापारेणात्तं स्वीकृतं स्वल्पमपि हि दीनतपस्व्यादौ विषये गुरूणां पित्रादिकुलवृद्धानामनुज्ञया, भृत्यानुपरोधेन पोष्यवर्गाविघातेन, भृत्यपदमितरपोष्योपलक्षणं यद्दानं तन्महादानमन्यत्तु एतद्विशेषणरहितं पुनर्दानमेव ॥ १३ ॥
एवं महादानं दानं चाभिधाय देवार्च्चनमाह ॥
देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तदेवार्चनं चेष्टम् ॥ १४ ॥ य० देवगुणपरिज्ञानात् देवगुणानां वीतरागत्वादीनां परिज्ञानमवबोधस्तस्मात्, तद्भावानुगतमुत्तमं विधिना तेषु गुणेषु भावो बहुमानस्तेनानुगतं युक्तं, उत्तमं प्रधानं विधिना शास्त्रोक्तेन, स्यादादरादियुक्तं यत् आदरकरणप्रीत्यादिसमन्वितं यत् स्यात् तदेवार्चनं चेष्टं तच्च देवार्चनमिष्टम् ॥ १४ ॥
उ० देवार्चनेप्येनमतिदेशमाह देवेत्यादि । देवगुणानां वीतरागत्वादीनां परिज्ञानात्तेषु गुणेषु यो भावो बहुमानस्तेनानुगतं
For Private & Personal Use Only
jainelibrary.org