________________
प्रधानः सद्बोधः सम्यग्ज्ञानं वर्त्तते सदनुष्ठानस्य सुन्दरानुष्ठानस्य हेतुः कारणमितिकृत्वा ॥९॥ | उ० किमित्येवमागमवचनपरिणामोऽधिक्रियत इत्यत आह । आगमेत्यादि । आगमवचनस्य परिणतिरज्ञानावरणहासोत्थोपादेयत्वाद्यविषयबालादिज्ञानतुल्यविषयप्रतिभासोत्तीर्णज्ञानावरणहासोत्थोपादेयत्वादिविषयात्मपरिणामवद्ज्ञानरूपा भवरोगस्य सदौषधं तदुच्छेदकत्वेन यद् यस्मादनपायं निर्दोषं प्रतिबन्धेऽपि श्रद्धादिभावात् तत्तस्मादिहागमवचनपरिणत्यां सत्यां परः प्रकृष्टः सज्ज्ञानावरणहासोत्थत्वाच्छुद्धोपादेयत्वादिविषयत्वाच्च सद्बोधस्तत्त्वसंवेदननामा प्रकाशः, सदनुष्ठानस्य विरतिरूपस्य हेतुः फलोपहितकारणमितिकृत्वागमवचनपरिणामोऽधिक्रियते ॥९॥
कथं पुनः सद्बोधादनुष्ठानं परिपूर्ण भवतीत्याह ॥ दशसंज्ञाविष्कंभणयोगे सत्यविकलं ह्यदो भवति । परहितनिरतस्य सदा गंभीरोदारभावस्य ॥ १०॥
य० दश च ताः संज्ञाश्च तासां विष्कंभणं यथाशक्तिनिरोधस्तद्योगे तत्संबन्धे सति तन्निरोधोत्साहे वा, अविकलं | ह्यखण्डं, अद एतत्सदनुष्ठानं भवति परहितनिरतस्य परोपकाराभिरतस्य, सदा सर्वकालं, गंभीरोदारभावस्य गांभीय्यौंदार्ययुक्तमनसः॥१०॥
उ० कः पुनः सद्बोधपूर्वानुष्ठानस्य विशेष इत्याह । दशेत्यादि । दशानां संज्ञानां विष्कभणं यथाशक्तिनिरोधस्तद्योगे तन्निरोधोत्साहे वा हि यतोऽदः प्रकृतानुष्ठानं भवत्यतोऽविकलं संपूर्ण भवति तद्वैकल्यापादकसंज्ञाविष्कंभणात् परहिते निरतस्य तथा सदा सर्वकालं गंभीर उदारश्च भावो यस्य स तथा तस्यात इदमविकलत्वाद्विशिष्यत इति भावः ॥१०॥
Jain Education
For Private
Personal Use Only
Hainality.org