________________
श्रीषोडश-|
टीकाद्वय
प्रकरणम्.
समेतम्.
॥२७॥
गमवचनं न सम्यक् फलोपधानेन परिणतं को नामामृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत भक्षणप्रवृत्तिं विदध्याद्विषप्रवृत्तिकल्पामविधिसेवा तत्त्वतो नागमवचनं फलतः परिणतमितिभावः ॥ ७॥
प्रतिषेधमुखेनोक्तमर्थ विधिमुखेन नानागमवचनपरिणामाश्रयमाह ॥ तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्वतः खल स चाधिकारी भवत्यस्याः ॥८॥
य. तस्माच्चरमेऽवसानवृत्तौ नियमान्नियमेनागमवचनं पूर्वोक्तमिह पुद्गलावर्ते प्रागुक्ते परिणमति उत्तरोत्तरपरिणामविशेषमासादयति, स्वरूपेण परिस्फुरतीत्यर्थः। तत्त्वतः खलु तत्त्वत एव यस्यैतदागमवचनं परिणमति स चाधिकारी अधिकारवान् भवत्यस्या लोकोत्तरतत्त्वसंप्राप्तेः शेषस्त्वनधिकारीति ॥८॥ | उ.विधिमुखेनोक्तं निषेधमुखेनाह । तस्मादित्यादि । तस्माच्चरमे पुद्गलावर्ते नियमेनेह जगति आगमवचनं तत्त्वतः खलु परमार्थतएव परिणमत्युत्तरोत्तरफलमुपदधाति सच परिणतागमवचनोऽस्या लोकोत्तरतत्त्वसंप्राप्तेरधिकारी भवति न शेषः॥८॥
किमित्यागमवचनपरिणामः प्रशस्यत इत्याह ॥ आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायं । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥९॥
य० आगमवचनपरिणतिर्यथावत्तत्प्रकाशरूपा भवरोगसदौषधं भवरोगस्य संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्यस्मात् , अन(निर)पायमपायरहितं निर्दोष वत्तेते तदिह परः सद्बोधस्तच्च भवरोगसदौषधमागमवचनपरिणत्याख्यं, परः १ आगमवचनपरिणतिर्भवरोगसदौषधं भवति यस्मात् । निरपायं तदिह परः सदनुष्ठानस्य हेतुरिति ॥ ९॥ इति पाठान्तरम् ॥
॥ २७॥
Jain Education
U
n a
For Private
Personal Use Only
TAIMiainelibrary.org