________________
य० तत एवाध्यारोपादेव भ्रान्तेरेवेत्यर्थः । अध्यारोपमण्डलदर्शनादेव वा अविधिसेवा अविधेविधिविपर्ययस्य सेवा सेवनं दानादौ विषये । आदिशब्दाच्छीलतपोभावनापरिग्रहः। तत्प्रसिद्धफल एव तस्मिन्नागमे प्रसिद्धंफलं यस्य दानादेस्तदस्मिन् । तस्यागमस्य तत्त्वं परमार्थस्तं पश्यन्तीति तत्तत्त्वदृशस्तेषामेषाऽविधिसेवा पापा स्वरूपेण कथमन्यथा भवति न
भवतीत्यर्थः॥६॥ | उ० उक्तमेवार्थ कार्यलिङ्गेन समर्थयति । तत एवेत्यादि । तत एवागमदीपेऽध्यारोपमण्डलदर्शनादेवाविधेर्विधिविपर्ययस्य सेवा दानादौ विषये तत्प्रसिद्धफल एवागमाभ्युपगतफल एव भवत्यन्यथागमार्थाध्यारोपाभावे तत्तत्त्वदृशामागमप्रामाण्याभ्युपगन्तृणामेषा दानाद्यविधिसेवा पापा पापहेतुः कथं स्यात्फलार्थिनः फलानुपाये प्रवृत्तेरर्थभ्रमं विनाऽसंभवादिति भावः ॥६॥
अविधिसेवागतमेवाह ॥ | येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसाखादज्ञः को नाम विष प्रवत्तत ॥७॥
य. येषां जीवानामेषाऽविधिसेवा तेषामागमवचनं सर्वज्ञवचनं न परिणतं सम्यग् ज्ञेयविषयविभागेन चेतसि न व्यवस्थित | आगमवचनापरिणती कारणमाह अमृतरसास्वादज्ञः पुमान् को नाम न कश्चिद्विषे मारणात्मके प्रवर्तेत भक्षयितुं प्रवृत्ति विदधीत विषप्रवृत्तिकल्पाऽविधिसेवा ततो विज्ञायते नागमवचनं सम्यक्परिणतमिति ॥७॥ | उ० ज्ञानफलाभावलक्षणापरिणामस्याप्यविधिसेवा लिङ्गमित्याह येषामित्यादि । येषां जीवानामेषाविधिसेवा तेषामा
Jain Education
a
l
For Private & Personal Use Only
lainelibrary.org