________________
श्रीषोडश
प्रकरणम्. ॥ २४ ॥
Jain Education in
कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयादयः प्रतिकर्त्तुमशक्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, संभवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥ १५ ॥
उ० मैत्र्यादिलक्षणमाह । परेत्यादि । परेषां प्राणिनां हितचिन्ता मैत्री ज्ञेया । परेषां यदुःखं तद्विनाशिनी परिणतिः करुणा । परेषां यत्सुखं तेन तस्मिन् वा तुष्टिरप्रीतिपरिहारो मुदिता । परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषामुपेक्षणमवधीरणमुपेक्षा संभवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना नोपेक्षा विधेया ॥ १५ ॥
एवं मैत्र्यादिगुणान्भावनारूपानभिधाय धर्म्मतत्त्वलक्षणोपसंहारं चिकीर्षुराह ॥
एतजिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ १६ ॥ ४ ॥ य० एतत्पूर्वोक्तं सर्व्वमेवौदार्यादिविधिप्रतिषेधविषयं जिनप्रणीतं जिनोक्तं लिङ्गं लक्षणं खलुशब्दो वाक्यालङ्कारे धर्मसिद्धिमत् धर्म्मनिष्पत्तिमत् जन्तोः प्राणिनः पुण्यादिसिद्धिसिद्धेः पुण्याद्युपायनिष्पत्तेः सिद्धं प्रतिष्ठितं सद्धेतुभावेन सत्कारणत्वेनावन्ध्यहेतुत्वेनेति यावत् । पुण्योपायाश्च चत्वारो यथोक्तं "दया भूतेषु वैराग्यं विधिदानं यथोचितम् । विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्त्तिताः ॥ १॥” आदिग्रहणात् ज्ञानयोगोपायपरिनिष्पत्तेश्च सद्धेतुत्त्वेन सिद्धमेतल्लिङ्गमिति ॥१६॥४॥
उ० उपसंहरन्नाह । एत इत्यादि । एतत् पूर्वोक्तमौदार्यादि सर्वमेव जिनप्रणीतं जिनोक्तं लिङ्गं लक्षणं खलुशब्दो वाक्यालङ्कारे जन्तोः प्राणिनो धर्मसिद्धिमद्व्यञ्जकतासंबन्धेन धर्मनिष्पत्तिमत्पुण्यस्यादय उपायाः “दया भूतेषु वैराग्यं विधि
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ २४ ॥
ainelibrary.org