SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ दानं यथोचितम् । विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्तिता" इति श्लोकोक्ताश्चत्वारः त एव सिद्धयः परमैश्वर्यरूपत्वात्तासां सिद्धेर्निष्पत्तेः सद्धेतुभावेनाऽवंध्यहेतुत्त्वेन सिद्धं पुण्यादीत्यादिना ज्ञानयोगग्रहोऽग्रिमसिद्धिशब्दश्चोपायार्थ इत्यन्ये ॥ १६ ॥४॥ ॥ इति चतुर्थ षोडशकम् ॥ एवं तावत्सामान्येन व्यवस्थितस्य धर्मतत्त्वस्य लिङ्गं सप्रपञ्चमभिधायाधुना लोकोत्तरतत्त्वसंप्राप्तिमाह ॥ एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते। नियमेन भवति पुंसां लोकोत्तरतत्त्वसंप्राप्तिः ॥ १॥ य० एवं सिद्धे धर्मे पूर्वोक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेह प्रक्रमे लिङ्गसंयुक्त प्रतिपादितनीत्या नियमेन नियोगेन भवति जायते पुंसां पुरुषाणां लोकोत्तरस्य लोकोत्तमस्य तत्त्वस्य परमार्थस्य संप्राप्तिाभ इति ॥१॥ | उ० एवं सामान्येन सलिङ्गधर्मसिद्धिमुक्त्वा ततो यत्स्यात्तदाह । एवमित्यादि । एवं प्रागुक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेहप्रक्रमे लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन निश्चयेन भवति । पुंसां तत्तत्तत्रोक्तमुमुक्षुजनयोग्याचारप्रणेतृनानावस्थापुनर्बन्धकापेक्षया शुद्धानां स्वतत्रव्यवहारस्थापुनर्बन्धकानां सम्यग्दृशां च सर्वेषामेव लोकोत्तरस्य लोकानव गतेतिकर्तव्यताकस्य तत्त्वस्य परमार्थस्य संप्राप्तिः॥१॥ इयं च लोकोत्तरतत्त्वसंप्राप्तिर्यद्रपा यस्मिंश्च काले संभवति तदेतदभिधातुमाह ॥ | आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते ॥ २ ॥ श्रीषो. ५ JainEducation For Private Personal Use Only (V ijainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy