________________
श्रीषोडश
टीकाद्वय समेतम्.
प्रकरणम्. ॥२३॥
नियमादिप्रतिपादकोऽन्यागमो न समीचीन इत्यस्य चाग्रहत्वात्सर्वस्यापि सद्वचनस्य परसमयेऽपि स्वसमयानन्यत्वादुक्तंचोपदेशपदे "सव्वप्पवायमूलं दुवालसंग जउ जिणक्खायं । रयणागरतुलं खलु तो सव्वं सुन्दरं तम्मीत्यन्यत्र विस्तरः॥११॥
एवं दृष्टिसंमोहमभिधाय तदनन्तरं धर्मपथ्यविषयायाः अरुचेर्लिङ्गमाह ॥ | धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेर्लिङ्गम् ॥ १२॥
य. धर्मस्य श्रवणमविपरीतार्थमाकर्णनं तत्रावज्ञाऽनादरस्तत्त्वे परमार्थे रस आसक्तिहेतुः तस्यास्वादः तस्मिन्विमुखता वैमुख्यं तत्त्वरसास्वादविमुखता चैव धार्मिका ये सत्त्वास्तैरसक्तिरसंयोगोऽसंपर्को धार्मिकसत्त्वात्सक्तिश्च । धर्मपथ्ये धर्मः पथ्यमिव तस्मिन्नरुचेर्लिङ्गमिति प्रत्येकमभिसंबंधः करणीयः॥१२॥ | उ. धर्मपथ्यारुचिं लिङ्गद्वारा लक्षयति । धर्मेत्यादि । धर्मस्य श्रवणमविपरीतार्थमाकर्णनं तत्रावज्ञानादरस्तत्त्वे परमार्थे वा रसस्तस्यास्वादोऽनुभवस्तस्मिन् विमुखता चैव धार्मिका ये सत्त्वाःप्राणिनस्तैः सहासक्तिरसंयोगश्च धर्म एव पथ्यं पापव्याध्यपनायकत्वात्तत्रारुचेर्लिङ्ग भवेदिति प्रत्येकमभिसंबंधनीयम् ॥ १२॥
नच पापा क्रोधकण्डूतिरित्युक्तं तस्याश्चिह्नमाह ॥ सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिहूं क्रोधकण्डूतेः ॥ १३ ॥
यः सत्यदोषश्रुतिभावादसत्यदोषश्रुतिभावाच्चान्तर्बहिश्चाभ्यन्तरपरिणाममाश्रित्यान्तर्बहिर्गताऽप्रसन्नताद्याकारद्वारेण बहिश्च यत्स्फुरणं वा वृद्धिश्चलनं वा अविचार्यानालोच्य कार्यतत्त्वं कार्यपरमार्थ तच्चिद्रं लक्षणं क्रोधकण्डूतेः क्रोधकण्डाः॥१३॥
॥ २३ ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org