SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education रोऽवसेयो । यदि वाऽहिंसाप्रशमादीनां तंत्रान्तरेष्वपि तुल्ये तत्त्वे परिभाषाभेदमात्रेणागमेष्वन्यथादृष्टिः पुरुषो यतो भवति । स दृष्टिसंमोह इति ॥ ११ ॥ उ० दृष्टिसंमोहं लक्षयति । गुणत इत्यादि । गुण उपकारफलं तदाश्रित्य तुल्ये समाने तत्त्वे द्वयोर्वस्तुनोः स्वरूपे सं| ज्ञाभेदस्य नामभेदस्यागमोऽवतारो यस्यां सा तथाऽन्यथा विपरीता दृष्टिर्मतिर्यतो दोषादसौ दोषोऽधमः खल्वधम एव दृष्टिसंमोहो दृष्टेर्मतेः सं सामस्त्येन मोह इति कृत्वा । तथा द्वयोरारंभयोर्भोगोपभोगलक्षणं तुल्यफलमाश्रित्य प्रवृत्त एकस्तत्फलोपभोगी तमारंभं सावद्यं मन्यतेऽपरस्तु प्रवृत्तिनाम्ना निरवद्यं तत्रापरस्य दृष्टिसंमोहः । यद्वा । गुणो भावाख्यस्त| माश्रित्य तुल्ये तत्त्वे आरंभद्वयादिगते आगमे शास्त्रेऽन्यथादृष्टिर्यस्येति बहुव्रीहिस्ततः संज्ञाभेदेनागमान्यथादृष्टिरिति तत्पुरुष एतादृशः पुरुषो यतो दोषाद्भवति स दृष्टिसंमोहः । यथा यादृच्छिक्यां यागीयायां च हिंसायां स्वोपभोगमात्रफलभू|तिकामनालक्षणक्लिष्ट भावाविशेषेपि तद्विशेषाश्रयणं वैदिकानां दृष्टिसंमोहः । यत्र तु गुणतो भावाख्यान्न तुल्यं तत्त्वं द्वयो|रारंभात्मनोर्व्यक्तिभेदेन वस्तुनोस्तत्र चैत्यायतनादिविषय (ये) क्षेत्र हिरण्यग्रामादौ शास्त्रीयाध्यवसायभेदेन प्रवृत्तत्वात् स्वयं च तत्फलस्यानुपभोगात्केवलमागमानुसारितया तत्रोपेक्षापरित्यागेन ग्रामक्षेत्राद्यारंभम परिहरतोऽपि स्वपरयोर्भावापद्विनिवारणाध्यवसायप्रवृद्ध्या न दृष्टिसंमोहाख्यो दोषो दर्शनमागमः तत्र संमोहः संमूढ तेत्यर्थाभावात्तत्त्वतः तस्यारंभपरिवर्जकत्वेनासंमूढत्वात् यद्वा गुणतः शब्दार्थतस्तुल्ये तत्त्वे हिंसादीनां संज्ञाभेदेनाकारणनियममहात्रतादिस्व परिभाषाभेदेनागमेषु पातं - | जलजैनादिशास्त्रेष्वन्यथादृष्टिः पुरुषो यतो भवति स दृष्टिसंमोहः महाव्रतादिप्रतिपादको मदीयागमः समीचीनोऽकरण For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy