SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीपोडशइदानीं दृष्टिसंमोहस्य लक्षणमाह ।। टीकाद्वयगुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः। भवति यतोऽसावधमो दोषः खल दृष्टिसंमोहः॥११॥ समेतम्, | य० गुण उपकारफलं तदाश्रित्य तुल्ये समाने द्वयोर्ध्वस्तुनोस्तद्भावस्तत्त्वं तस्मिंस्तुल्ये सति । संज्ञाभेदागमान्यथा-1 ॥२२॥ 18 दृष्टिः आगमे न आगमविषये अन्यथा विपरीता दृष्टिमतिरस्येत्यागमान्यथादृष्टिबहुव्रीहिसमासः संज्ञाभेदेन नामभेदे-४ नागमान्यथादृष्टिरिति पुरुषः परिगृह्यते, भवति जायते, यतो यस्माद्दोषादसौ दोषोऽधमो निकृष्टः, खलुशब्दोऽयधारणेऽ धम एव दोषो दृष्टिसंमोहाभिधानः । इदमत्र हृदयं । निदर्शनमात्रेण द्वयोरारंभयो गोपभोगलक्षणं फलमाश्रित्य तुल्य8| मेव तत्त्वं । तत्रैकस्मिन्नारंभे प्रवृत्तः पुरुषस्तत्फलोपयोगी तमारंभं सावद्यं मन्यतेऽपरस्तु तत्समान एव प्रवृत्तस्तमारंभ निर्दोष मन्यते । तत्फलं च स्वयमेवोपभुक्ते यतो दोषात्स दृष्टिसंमोह इति । अथवा गुणः परिणामो भावोऽध्यवसायविशेषस्तदङ्गीकरणेन तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः पुरुषो यतो दोषात्प्रवर्तते । स दृष्टिसंमोहो नाम दोषो भवति । यत्र तु गुणतो भावाख्याद्गुणान्न तुल्यं तत्त्वं स्वरूपं द्वयोरारंभात्मनोर्व्यक्तिभेदेन वस्तुनोस्तत्र चैत्यायतनादिविषये क्षेत्रहिरण्यग्रामादौ शास्त्रीयाऽध्यवसायभेदेन प्रवृत्तत्वात्स्वयं च तत्फलस्यानुपभोगात्केवलमागमानुसारितया तत्रोपेक्षापरित्यागेन ग्रामक्षेत्राद्यारंभमपरिहरतोऽपि न दृष्टिसंमोहाख्यो दोषस्तत्त्वतस्तस्यारंभपरिवर्जनात् । दर्शनमागमो जिनमतं तत्र संमोहः संमूढता अन्यथोक्तस्यान्यथाप्रतिपत्तिदर्शनसंमोहः। नचैवंविधस्यागमिकस्य दोषः संभवतीति । तथाचागमः। ॥२२॥ चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाई । लग्गंतस्स उ जइणो तिकरणसोही कहं णु भवे ॥१॥ अयं च स चोद्यः परिहा For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy