________________
श्रीषोडश
प्रकरणम्. ॥ २० ॥
Jain Education Int
पापजुगुप्सालक्षणमाह ॥
| पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ॥ ५॥
य० पापजुगुप्सा तु तथा पापपरिहाररूपा सम्यक्परिशुद्ध चेतसा अविपरीतपरिशुद्धमनसा सततमनवरतं पापोद्वेगोऽतीतकृतपापोद्विग्नता अकरणं पापस्य वर्त्तमानकाले तदचिन्ता चेत्यनुक्रमतः तस्मिन्भाविनि पापे अचिन्ताऽ चिंतनमनुक्रमेण आनुपूर्व्या कालत्रयरूपया अथवा पापोद्वेगः पापपरिहारः कायप्रवृत्त्या करणं वाचा तदचिन्ता पापाचिन्ता मनसा सपीयं पापजुगुप्सा धर्म्मतत्त्वस्य लिङ्गम् ॥ ५ ॥
उ० पापजुगुप्सालक्षणमाह । पापेत्यादि । पापजुगुप्सा तु तथा तेन प्रकारेण पापनिषेधकमुखकराद्यभिनयविशेषेणाभिव्यज्यमाना सम्यगविपरीतं परिशुद्धं यच्चेतो मनस्तेन सततमनवरतं पापस्यातीतकृतस्योद्वेगो निन्द अकरणं पापस्य वर्तमानकाले तस्मिन् भाविनि पापेऽचिन्ताऽचिन्तनमित्यनुक्रमत आनुपूर्व्या कालत्रयरूपया यद्वा पापोद्वेगः पापपरिहारः कायप्रवृत्त्याsकरणं वाचा तदचिंता पापाचिंतनं मनसा सर्वापीयं पापजुगुप्सा धर्मतत्त्वस्य लिङ्गम् ॥ ५ ॥
अधुना निर्मलबोधलक्षणमाह ॥
निर्मलबोधोऽप्येवं शुश्रूषाभावसंभवो ज्ञेयः । शमगर्भशास्त्रयोगाच्छ्रुतचिन्ताभावनासारः ॥ ६॥ ० निर्मलबोधोऽपि विमलबोधोपि एवमनेन प्रकारेण शुश्रूषाभावसंभवः शुश्रूषायां भावः तत्समुत्थो ज्ञेयो ज्ञातव्यः
For Private & Personal Use Only
****
टीकाद्वय
समेतम्.
॥ २० ॥
inelibrary.org