________________
Jain Education
औचित्येन वृत्तिरस्मिन्नौदार्ये आशयमहत्त्व वा तदौचित्यवृत्ति, कार्ये कार्यविषये तदौदार्यमाशय महत्त्वं वा अत्यन्तमतिशयेन औचित्यवृत्तिकारि वा एतद्गुर्व्वादिषु ॥ ३ ॥
उ० औदार्य लक्षयति । औदार्यमित्यादि । औदार्य कार्पण्यस्य दानादिपरिणामसंकोचलक्षणस्य त्यागादाशयस्य चित्तस्य महत्त्वं असङ्कुचितदानादिपरिणामशालित्वं विज्ञेयं तदौदार्यमत्यन्तमतिशयेन गुर्वादयो मातृपितृकलाचार्यतज्ज्ञातिवृद्धधर्मोपदेष्टारो दीनादयश्च दीनान्धकृपणप्रभृतयस्तेषु यत् कार्य दानादि तस्मिन् विषये औचित्येन वृत्तिर्यस्य तत्तथा ॥ ३ ॥ इदानीं दाक्षिण्यलक्षणमाह ॥
दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः । गांभीर्यधैर्यसचिवो मात्सर्यविघातकृत्परमः ॥ ४ ॥
० दाक्षिण्यं पूर्वोक्तस्वरूपं परकृत्येष्वपि परकार्येष्वपि योगपर उत्साहपरः शुभाशयः शुभाध्यवसायो ज्ञेयः गांभीर्यधैर्यसचिवः परैरलब्धमध्यो गंभीरस्तद्भावो गांभीर्य धैर्य धीरता स्थिरत्वं ते गांभीर्यधैर्ये सचिवौ सहायावस्येति । मात्सर्यविघातकृत्परप्रशंसाऽसहिष्णुत्वविघातकृत्परमः प्रधानः शुभाशय इति ॥ ४ ॥
उ० दाक्षिण्यं लक्षयति । दाक्षिण्यमित्यादि । दाक्षिण्यं परेषां कृत्येषु कार्येष्वपि योगपर उत्साहप्रगुणः शुभाशयो ज्ञेयः गांभीर्य परैरलब्धमध्यत्वं धैर्य भयहेतूपनिपातेऽपि निर्भयत्वं ते सचिवौ सहायौ यस्य स तथा मात्सर्य परप्रशंसासहिष्णुत्वं तस्य विघातकृत्परमः प्रधानः ॥ ४ ॥
For Private & Personal Use Only
jainelibrary.org