SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ शून्यमिह पापवृत्तिहेतुर्भावः क्लिष्टाध्यवसायस्तेन शून्यमलमत्यर्थ सम्यग्दृष्टिहि पापं कुर्वाणोपि न भावतो बहु मन्यते । यथेदमेव साध्विति । अत एव पापाबहुमानद्वारेण । धर्मयोगाद्धर्मोत्साहाद्धर्मसंबंधाद्वा क्षिप्रमचिरेण तत्सिद्धिमानोति धर्मनिष्पत्तिमवामोति ॥ १६॥ । उ० अविरतसम्यग्दृष्टेरपि पापक्रिया दृश्यत एवेति कथं न तद्बहुमान इत्यत आह । यद्यपीत्यादि । यद्यपि कर्मणो है निकाचितचारित्रमोहस्य नियोगाद्व्यापारात्करोति तत् पापं तदपि तथाप्यलमत्यर्थ भावेन क्लिष्टाध्यवसायेन शून्यं करोति ततः सम्यग्दृष्टेस्तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिरस्वारसिकीति न तद्वहुमान इत्यर्थः । अत एवेदं साध्विति पापाबहुमानादेव धर्मयोगात्तीव्रधर्मोत्साहात् शीघं तस्य धर्मस्य सिद्धिमाप्नोति सम्यग्दृष्टिः॥ १६ ॥३॥ ॥ इति तृतीयं षोडशकम् ॥ अस्य स्वलक्षणमिदं धर्मस्येत्युक्तम् प्राक्तत्रास्यैव धर्म(स्व)तत्त्वस्य विस्तरेण लिंगान्याह । सिद्धस्य चास्य सम्यग्लिंगान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् ॥१॥ __य० सिद्धस्य च निष्पन्नस्य चास्य प्रत्यक्षीकृतस्य सम्यगवैपरीत्येन प्रशस्तानि वा लिंगानि लक्षणान्येतानि वक्ष्यमाणानि धर्मतत्त्वस्य धर्मस्वरूपस्य विहितानि शास्त्रेऽभिहितानि तत्त्वविद्भिः परमार्थवेदिभिः सुखावबोधाय सुखपरिज्ञानाय येन |तानि सुखेनैव बुद्ध्यन्ते । भव्यानां योग्यानां ॥१॥ श्रीषो. ४ Jain Education I deal For Private Personal Use Only M iainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy