SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश - * तोपि बहुकालं नैरन्तर्यवृत्त्या प्रभूतकालं । त्यक्त्वा तत्क्षणममृतलाभोपायश्रवणक्षण एवैनं कुभक्तरसं वांछत्युच्चैरतिशये नामृतमेव तस्य निरुपाधिस्पृहणीयत्वात् ॥ १४ ॥ प्रकरणम्. ॥ १८ ॥ Jain Education Internatio एवं त्वपूर्वकरणात्सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालासेवितमपि न जातु बहुमन्यते पापम् ॥१५॥ य० एवं त्वपूर्वकरणात् । एवमेवापूर्व करणादपूर्व परिणामात्सम्यक्त्वामृतरसज्ञ इह जीवः सम्यक्त्वामृतरसमनुभवद्वा| रेण जानातीति तज्ज्ञ उच्यते । चिरकालासेवितमपि प्रभूतकालाभ्यस्तमपि न जातु न कदाचिद्वहुमन्यते बहुमानविषयीकरोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य वा प्रवचनोपघातादि इह च कुभक्तरसकलं पापमिथ्यात्वादि । अमृतरसास्वादकल्पो भावः सम्यक्त्वादिरवसेय इति ॥ १५ ॥ उ० एवंत्वित्यादि । एवं त्वेवमेवापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसज्ञ इह जगति जीवः चिरकालं प्रभूतभवान् यावदा सेवितमभ्यस्तमपि न जातु कदाचिद्बहुमन्यते उत्कटेच्छाविषयीकरोति पापं मिथ्यात्वमोहनीयं तत्कार्यं वा प्रवचनोपघातादि । इह कुभक्तरसकल्पं पापं मिथ्यात्वादि । अमृतरसास्वादकल्पो भावः सम्यक्त्वादिरवसेयः ॥ १५ ॥ सम्यक्त्वामृतरसज्ञो जीवः पापं न बहुमन्यत इत्युक्तं । तत्र सम्यग्दृष्टिरपि विरतेरभावात्पापं कुर्वन् दृश्यत एवेत्या| यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ॥१६॥ ॥ ० यद्यपि कथंचित्कर्म्मनियोगात्कर्म्मव्यापारात्करोति विदधाति तत्पापं तद्भावशून्यमलं तदपि क्रियमाणं पापं भाव शंक्याह । For Private & Personal Use Only टीकाद्वय समेतम्. ॥ १८ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy