SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. उ० एवमेतान् प्रणिधानादीनुक्त्वा एषां भावत्वसमर्थनायाह आशयेत्यादि । एते पूर्वोक्ताः सर्वेपि कथंचित् क्रिया-| टीकाद्वयरूपत्वेऽपि तत्त्वतः परमार्थतस्तदुपलक्ष्या आशयभेदा अवगन्तव्याः। अयं पञ्चप्रकारोप्याशयो भाव उच्यते उपयोगस्य | भावनालक्षणत्वादनेन भावेन विना चेष्टा कायवाङ्मनोव्यापाररूपा तुच्छा द्रव्यक्रियात्वेन फलाजननीत्यर्थः ॥ १२॥ समेतम्. अस्माच्च सानुबन्धाच्छद्धयन्तोऽवाप्यते द्रुतं क्रमशः। एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः॥१३॥ __ य० अस्माच्च पूर्वोक्ताद्भावादाशयपञ्चकरूपात्सानुबंधात् । अनुबंधः सन्तानस्तेन सह वर्तते यो भावः स सानुबंधस्तद | विनाभूतः। स चाव्यवच्छिन्नसन्तानस्तस्मादेवंविधाभावाच्छुद्धेरन्तःप्रकर्षः शुद्ध्यन्तो वाप्यते प्राप्यते द्रुतमविलंबितं प्रभूतकालात्ययविगमेन क्रमशः क्रमेणानुपूर्व्या तस्मिन् जन्मन्यपरस्मिन्वा कर्मक्षयप्रकर्षों लभ्यते । ननु चैष एव भावो धर्मपरमार्थ आहोस्विदन्यद्धर्मतत्त्वमित्यारेकायां परस्य निर्वचनमाह एतदिह धर्मतत्त्वं अत्र यद्यपि भावस्य प्रस्तुतत्वादेत |दित्यत्र पुलिङ्गतायामेष इति निर्देशः प्रामोति । तथापि धर्मतत्त्वमित्यस्य पदस्य प्रधानापेक्षया नपुंसकनिर्देशोऽर्थस्तु एतदिह प्रस्तुतं भावस्वरूपं धर्मतत्त्वं नान्यत् परमो योग इति । अयं भावः परमो योगो वर्त्तते । स च कीहक् विमुक्तिरसः विशिष्टा मुक्तिबिमुक्तिस्तद्विषयो रसः प्रीतिविशेषो यस्मिन्योगे स विमुक्तिरसः विमुक्तौ रसोऽस्येति वा गमकत्वात्समासोऽ थवा पृथगेव पदान्तरं न विशेषणं तेनायं भावो विमुक्ती रसः प्रीतिविशेषो विमुक्तिरस उच्यते । एतदुक्तं भवति । भाव भा॥१७॥ एव धर्मतत्त्वं भाव एव च परमो योगो भाव एव च विमुक्तिरस इति ॥ १३ ॥ उ. भावाच्च यत् स्यात्तदाह । अस्माञ्चेत्यादि । अस्माच्चाशयपञ्चकरूपाद्भावात्सानुबंधादव्यवच्छिन्नसंतानात् क्रमशः COMMC-ACC-1 Jain Education.international For Private & Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy