________________
नियोगो नियोजनमध्यारोपणमितिकृत्वा आशयभेदत्वाच्च विनियोगस्यावन्ध्यत्वाप्रतिपादनप्रक्रियया स्वरूपोपकारहेतुत्वं र दर्शयति । सूत्रकारः॥११॥ | उ. विनियोगं लक्षयति। सिद्धेश्चेत्यादि । सिद्धेश्चोत्तरकालभावकार्य विनियोगो नामाशयभेदो विज्ञेयः एतद्विनियोगाख्यं | सिद्ध्यत्तरकार्यमवन्ध्यं न कदाचिन्निष्फलमेतस्मिन् सति सञ्जातेऽन्वयसंपत्त्या भंगेऽपि सुवर्णघटन्यायेन सर्वथा फलानपगमाद्विनियोजितधर्मापगमेपि भूयो झटिति तत्संस्कारोबोधसंभवादनेकजन्मान्तरसन्तानक्रमेणाविच्छेदसंपत्त्या हेतुभूतया इतिहतोस्तत्सिद्ध्युत्तरकार्य परं शैलेशीलक्षणं सर्वोत्कृष्टधर्मस्थानं यावत्सुन्दरं परोपकारगर्भक्रियाशक्त्या तीर्थकरविभूतिपर्यन्तसुन्दरविपाकार्थकं अयं विनियोगफलोपदेशः लक्षणं तु स्वात्मतुल्यपरफलकर्तृत्वमित्यवसेयं ॥ ११॥
एवमेतान् प्रणिधानादीनभिधाय कथंचित्क्रियारूपत्वप्राप्तावेषामाशयविशेषत्वसमर्थनायाह ॥ आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः। भावोयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥१२॥ ___ य० आशयभेदा आशयप्रकारा एते पूर्वोक्ताः सर्वेऽपि हि सर्व एव कथंचिन्क्रियारूपत्वेऽपि तदुपलक्ष्यतया तत्त्वतः परमार्थेनावगन्तव्या विज्ञेयाः परिणामविशेषा एत इति । शुभाशयः पञ्चधा त्रिविधो वेत्युक्तं स किं भावादपरोऽथ भाव एवेत्याशंकायामिदमाह भावोऽयमिति । अयं पञ्चप्रकारोप्याशयो भाव इत्यभिधीयतेऽनेन भावेन विना चेष्टा व्यापाररूपा कायवाङ्मनःसङ्गता द्रव्यक्रिया तुच्छा भावविकला क्रिया द्रव्यक्रिया तुच्छा असारा स्वफलाऽसाधकत्वेन कस्मात्पुनद्रव्यक्रियायास्तुच्छत्वापादनेन भावप्राधान्यमाश्रीयत इत्याह ॥ १२॥
Jain Education-INK
For Private
Personal Use Only
K
ainelibrary.org