SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ CAAAAAAKAALCCCRICK उ० विघ्नजयं लक्षयति। विघ्नेत्यादि । विघ्नस्य धर्मान्तरायस्य जयः खलु त्रिविधो विज्ञेयः प्रतियोगिभेदाधीनमध्यमाभ्यां सहित उत्कृष्ट एको हीनो विघ्नजयोऽपरो मध्यमोऽन्यस्तूत्कृष्ट इति त्रैविध्यमेव निदर्शनगर्भविशेषणेन समर्थयति मार्गे प्रवृत्तस्य पुंस इह जगति ये कण्टकज्वरमोहाः कण्टकपादवेधज्वरोत्पत्तिदिग्मोहोत्पादा विघ्ना अस्खलिताविह्वलनियतदिप्रवृत्तिप्रतिबंधकास्तज्जयाश्च विशिष्टप्रवृत्तिहेतवस्तत्समोऽयं धर्मस्थानेपि कण्टकानां शीतोष्णादीनां ज्वरकल्पानां शारीररोगाणां दिग्मोहकल्पस्य च मिथ्यात्वस्य जयः परिषहतितिक्षयारोग्यहेतुविहिताहारादिप्रवृत्तिमनोविभ्रमापनायकसम्य|क्त्वभावनया च जनितो यथोत्तरमधिकस्त्रिविधोऽपि समुदितः प्रवृत्तिरधिकृतधर्मस्थानविषया फलं यस्य स तथाऽल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेरित्यवसेयं ॥ ९॥ एवं तृतीयमाशयभेदं प्रतिपाद्य सिद्धिरूपमाशयमाह ॥ सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया। अधिके विनयादियुता हीने च दयादिगुणसारा ॥१०॥४|| य० सिद्धिर्नामाशयभेदः सा च स्वरूपतः कीदृशी । तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया तस्य तस्य विवक्षितस्य धर्मस्थानस्याहिंसादेरवाप्तिः प्राप्तिः सिद्धिरुच्यते। सा च तात्त्विकीदं च विशेषणं तत्तद्धर्मस्थानावाप्रतात्विकत्वपरिहारार्थ नह्यतात्त्विकी सा सिद्धिर्भवितुमर्हति । सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयवेदिन्यभ्यस्तभावनामार्गे तीर्थकल्पे गुरी विनयादियुता विनयवैयावृत्त्यबहुमानादिसमन्विता हीने च स्वप्रतिपन्नधर्मस्थानापेक्षया हीनगुणे निर्गुणे वा ।। JainEducation inaru For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy