SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ १४ ॥ उ० प्रणिधानादिभेदानेवाह । प्रणिधीत्यादि । प्रणिधिश्च प्रवृत्तिश्च सिद्धिश्च विनियोगश्च विघ्नजयश्च तएव भेदास्तानाश्रित्य प्रायः प्राचुर्येण शास्त्रेषु धर्मज्ञैः शुभाशयः पञ्चधाख्यातोऽत्र पुष्टिशुद्ध्यनुबंधप्रक्रमे विधौ विहिताचारे ॥ ६ ॥ तत्र प्रणिधानलक्षणमाह ॥ प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च ॥ ७ ॥ य० प्रणिधानं विशेष्यं शेषपदानि विशेषणानि तत्समये प्रतिपन्नविवक्षितधर्म्मस्थानमर्यादायां स्थितिमत्प्रतिष्ठितं अविचलितस्वभावं तदधःकृपानुगं चैव स्वप्रतिपन्नधर्म्मस्थानस्याधोऽधस्ताद्ये वर्तन्ते जीवा न तावतीं धर्म्मपदवीमाराधयन्ति तेषु कृपया करुणया अनुरागमनुगतं तेषु करुणापरं । न तु गुणहीनत्वात्तेषु द्वेषसमन्वितं निरवद्यवस्तुविषयं निरवद्यं सावद्यपरिहारेण यद्वस्तु धर्म्मगतं तद्विषयो यस्य परार्थनिष्पत्तिसारं च । परोपकार निष्पत्तिप्रधानं चैवं स्वरूपं प्रणिधानमवसेयं ॥७॥ उ० तत्र प्रणिधानलक्षणमाह । प्रणिधानमित्यादि । प्रणिधानं तद् यत्तत्समयेऽधिकृतधर्मस्थानप्रतिज्ञासमये स्थितिमतत्सिद्धिं यावन्निमित्तप्रतिष्ठं संस्कारात्मनाऽविचलितस्वभावं च तदधः स्वप्रतिपन्नधर्मस्थानादधस्तनगुणस्थानवर्तिजीवेषु कृपानुगं करुणानुयायि चैव न तु हीनगुणत्वात्तेषु द्वेषान्वितं च पुनः परार्थनिष्पत्तिसारं परोपकारसिद्धिप्रधानं सर्वस्या अपि सतां प्रवृत्तेरुपसर्जनी कृतस्वार्थप्रधानीकृतपरार्थत्वात् निरवद्यं यद्वस्तु अधिकृतधर्मस्थान सिद्ध्यनुकूल प्रतिदिन कर्त्तव्यं तद्विषयं तद्विषयध्यानम् ॥ ७ ॥ Jain Education anal For Private & Personal Use Only टीकाद्वय समेतम्. ॥ १४ ॥ jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy