SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ कथं पुनरिदमनुबन्धिद्वयं न भवतीत्याह ॥ न प्रणिधानाद्याशयसंविद्यतिरेकतोऽनुबन्धि तत् । भिन्नग्रंथेनिमलबोधवतः स्यादियं च परा ॥५॥ । य० प्रणिधानाद्याशयसंविध्यतिरेकत इति प्रणिधानादयश्च ते आशयाश्च वक्ष्यमाणाः पञ्चाध्यवसायस्थानविशेषास्तेषां | संवित्संवित्तिः संवेदनमनुभवस्तस्या व्यतिरेकोऽभावस्तस्मात्तदाशयसंविध्यतिरेकेणैतद्वयं पुष्टिशुद्धिरूपं नानुबन्धि भवति । तस्मादेतद्यमनुवन्धिकर्तुकामेन प्रणिधानादिषु यतितव्यं । इयं च कस्येत्याह । भिन्नग्रंथेरपूर्वकरणवलेन कृतग्रन्थिभेदस्य | तत्प्रभावादेव निर्मलबोधवतो विमलबोधसंपन्नस्य स्याद्भवेदियं च प्रस्तुता प्रणिधानाद्याशयसंवित्परा प्रधाना ॥५॥ | उ० एतद्वयानुबन्धसामग्री कस्य न भवतीत्याह । नेत्यादि । प्रणिधानादयो वक्ष्यमाणा आशया अध्यवसायस्थानविशेषास्तेषां संविदनुभूतिस्तस्याव्यतिरेकतोऽभावाद् तत्पुष्टिशुद्धिद्वयमनुबन्धि न भवति । तस्मादियमेतदनुबन्धसामग्रीयं च |भिन्नग्रंथेरपूर्वकरणेन कृतग्रन्थिभेदस्य तन्महिम्नैव निमेलबोधवतः परा प्राधान्यका स्यात् ॥५॥ । प्रणिधानादिराशय उक्तस्तमेव संख्याविशिष्टं नामग्राहमाह ॥ प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतःप्रायः। धर्मज्ञैराख्यातः शुभाशयः पञ्चधाऽत्र विधौ ॥६॥ ___ य० प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एतएव भेदाः तानाश्रित्य कर्मणि ल्यब्लोपे पञ्चमी प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतःप्रायइतिप्राचुर्येण शास्त्रेषु धर्मज्ञैर्धर्मवेदिभिराख्यातःकथितः शुभाशयःशुभपरिणामः पञ्चधा पञ्चप्रकारः अत्र प्रक्रमे विधौ कर्त्तव्योपदेशे प्रतिपादिताशयपञ्चकव्यतिरेकेण। पुष्टिशुद्धिलक्षणं द्वयमनुबन्धि न भवतीति ॥६॥ For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy