SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ |चित्तस्य ततश्च चित्तस्य विशेषणपदैरभिसंबंधो न स्यादितिदोषः । एतदेव चित्तं मलविगमेन रागादिमलापगमेन पुष्ट्यादिमत् पुष्टिशुद्धिद्वयसमन्वितमेष धर्मो विज्ञेय इति ॥२॥ उ० किं धर्मस्य स्वलक्षणमित्याह । धर्मइत्यादि । धर्मश्चित्तप्रभवो मानसाकूतजो नतु सम्मूर्च्छनजतुल्यक्रियामानं यतो धर्मात् क्रियाया विहितनिषिद्धाचरणत्यागरूपाया अधिकरणमधिकारस्तदाश्रयं कार्य भवनिर्वेदादि भवति एष मार्गानुसारी धर्मो लक्ष्यो नत्वभव्यादिगतोपि स च मलविगमेन पुष्ट्यादिमत् पुष्टिशुद्धिमदेतच्चित्तं विज्ञेयो लक्षणनिर्देशोयं ॥२॥ | मलविगमेनैतत् खलु पुष्टिमदित्युक्तं तत्र के मलाः कथं च पुण्यादिमत्त्वं चित्तस्येत्येवं वक्तुकामनायां श्रोतुरिदमाह ॥ रागादयो मलाः खल्वागमसद्योगतो विगम एषां। तदयं क्रियात एव हि पुष्टिःशुद्धिश्च चित्तस्य ॥३॥ । य० इह मलाः प्रक्रमाद्वित्तस्यैव संबंधिनः परिगृह्यते । ते च रागादयो रागद्वेषमोहा जातिसंगृहीता व्यक्तिभेदेन तु भूयांसः। खलु शब्दावधारणाद्रागादय एव नान्ये । आगमनमागमः सम्यकपरिच्छेदस्तेन सद्योगः सद्व्यापारः॥आगमसहितो वा यः सद्योगः सक्रियारूपः । ततः सकाशाद्विगम एषां रागादीनां मलानामपगमः संजायते । तत्तस्मादयमागमसद्योगः |क्रिया वर्त्तते सर्वापि शास्त्रोक्ता विधिप्रतिषेधात्मिका। अत एव ह्यागमसद्योगात् क्रियारूपात्पुष्टिवक्ष्यमाणस्वरूपा शुद्धिश्च चित्तस्य संभवति ॥३॥ उ० मलविगमेन पुष्ट्यादिमत्त्वं चित्तेऽस्य कथं स्यादित्येतद्विवक्षुराह। रागादय इत्यादि। इह मलाश्चित्तस्य रागादयः खलु रागद्वेषमोहा एव खलुरेवार्थे एषां रागादीनां मलानां । आगमनं आगमः सम्यकपरिच्छेदः तेन सद्योगः सयापारः सत् श्रीषो. ३ Jain Education.ireen For Private Personal Use Only mejainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy