SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ १२ ॥ Jain Education विद्वद्भिः सदैव सर्वकालमेव विज्ञेयं । सर्व्वकालव्याप्त्या लक्षणस्यान्यथात्वाभावमुपदर्शयति । सर्व्वेरागमैः परिशुद्धं निर्दोषं यदादिमध्यांत कल्याणमादिमध्यावसानेषु सुंदरमिति योर्थः ॥ १ ॥ उ० सद्धर्मदेशनाविधिरुक्तोऽथ धर्मस्यैव स्वलक्षणमभिधित्सुराह । अस्येत्यादि । अस्य धर्मस्य लक्ष्यते तदितरव्यावृत्तं वस्त्व| नेनेति लक्षणं स्वं च तलक्षणं च स्वलक्षणमिदं वक्ष्यमाणं बुधैः सदैव विज्ञेयं लक्षणस्य कदाप्यपरावृत्तेः स्वलक्षणं कीदृशं सर्वैरागमैः परिशुद्धं सामान्यतस्तस्य सार्वतंत्रिकत्वात् तथा यत् स्वलक्षणमादिमध्यांतेषु कल्याणमंतरालाप्राप्तेः सदा। | सुंदरमित्यर्थः ॥ १ ॥ किं पुनर्द्धर्म्मस्य स्वलक्षणमित्याह ॥ धर्मवित्प्रभवो यतः क्रियाधिकरणाश्रयं कार्यं ॥ मलविगमेनैतत्खलु पुष्ट्यादिमदेष विज्ञेयः ॥ २ ॥ ० प्रभवत्यस्मादिति प्रभवः । चित्तरूपत्वाच्चित्तहेतुकत्वाच्चरित्रं चित्तं सचासौ प्रभवश्च चित्तप्रभवः स धर्मो विज्ञेयः । विशेषणसमासांगीकरणाद्यच्छब्देन चित्तमेव परामृष्यते । यतश्चित्तात्क्रिया प्रवर्त्तते विधिप्रतिषेधविषया । सा च क्रिया कार्य चित्तनिष्पाद्यत्वात् । तच्च स्वरूपेण क्रियालक्षणं कार्य कीदृशं यच्चित्तात्प्रवर्त्तत इत्याह । अधिकरणाश्रयमिह यद्यप्यधिक| रणशब्दः सामान्येनाधारवचनस्तथापि प्रक्रमाच्चित्तस्याधिकरणमाश्रयः शरीरं चित्तस्य शरीराधारत्वात् । क्रियालक्षणं कार्यमधिकरणाश्रयं शरीराश्रयं यतः प्रवर्त्तते चित्तात्तच्चित्तं धर्म्म इत्युक्तं । चित्तात्प्रभवतीतिपुनरुच्यते चित्तस्य । एतत्पुष्ट्यादिमदित्यनेन सह संबंधो न स्यात् । यत् इत्यनेनापि केवलमेव चित्तं न गृह्येत । तथा धर्म्मस्यैव विशेष्यत्वं स्यान्न For Private & Personal Use Only टीकाद्वय समेतम्. ॥ १२ ॥ vcjainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy