SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ AAACANCERCOACANCIRCUS बालादीनां सद्धर्मदेशनाविधिरधिकृतस्तमेव निगमयन्नाह ॥ इति यः कथयति धर्म विज्ञायौचित्ययोगमनघमतिः।जनयति स एन मतुलं श्रोतृषु निर्वाणफलदमलम् १६ ॥ I य० इति यः कथयति धर्म एवमुक्तनीत्या यो गुरुर्द्धर्म कथयति विज्ञाय ज्ञात्वा औचित्ययोगं औचित्यव्यापार तत्संबंध वा। अनघमतिर्निर्दोषबुद्धिर्जनयति स गुरुरेनंधर्ममतुलमनन्यसदृशं श्रोतृषु शुश्रूषाप्रवृत्तेषु निर्वाणफलदं मोक्षफलप्रदमलमत्यर्थमिति ॥ १६ ॥२॥ उ० उपसंहरन्नाह । इतीत्यादि । इत्युक्तप्रकारेण यो गुरुर्धर्म कथयति विज्ञायौचित्येन योगं परिणाम बालादिपरिणामौचित्यमितियावदनघमतिर्निर्दोषबुद्धिर्जनयति स गुरुरेनं धर्ममतुलमनन्यसदृशं श्रोतृषु शुश्रूषाप्रवृत्तेषु निर्वाणफलदमलमत्यर्थमवंध्यबीजवपनसामर्थ्यादिति ज्ञेयम् ॥ १६ ॥२॥ ॥इति द्वितीयं षोडशकम् ॥ बालादीनां सद्धर्मदेशनाविधिर्गुरोरुक्तसूत्रधर्मस्वलक्षणाभिधित्सया संबंधमुपरचयति । प्रकरणकारः ॥ अस्य स्खलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् ॥ सर्वागमपरिशुद्धं यदादिमध्यांतकल्याणम् ॥१॥ यः अस्य धर्मस्य स्वलक्षणं लक्ष्यते तदितरव्यावृत्तं वस्त्वनेनेतिलक्षणं । स्वं च तल्लक्षणं चेति स्वलक्षणमिदंवक्ष्यमाणं बुधै Wwrainelibrary.org lain Education amonal For Private & Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy