SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ है वचनमागमरूपं । धर्मश्चैतत्संस्थो वचनसंस्थो वचने संतिष्ठत इति कृत्वा मौनींद्रं चैतद्वचनमिह प्रक्रमे परमं प्रधानं ॥४ एतदुक्तं "सर्वज्ञोक्तेन शास्त्रेण विदित्वा योऽत्र तत्त्वतः॥ न्यायतः क्रियते धर्मः स धर्मः स च सिद्धये" ॥ १३ ॥ उ० अथ किमिति सकलानुष्ठानोपसर्जनीभावापादनेन वचनस्यैव प्राधान्यं ख्याप्यत इत्याशंकायामाह। यस्मादित्यादि ।। यस्मात् प्रवर्तकं भुवि भव्यलोके स्वाध्यायादौ विधेये । निवर्तकं च हिंसादेरंतरात्मनो मनसो वचनं । धर्मश्च प्रवृत्तिनिवृ-18 त्तिफलजननव्यापारीभूत एतस्मिन् वचने ज्ञापकतासंबंधेन संदिष्ट इत्येतत्संस्थः मौनींद्रं मुनींद्रोक्तेनाबाधितप्रामाण्यं चैतद्वचनमिह प्रक्रमे परमं अनुष्ठानानुपजीविप्रामाण्यं तत इदमेव प्रधानमुद्धप्यतेऽनुष्ठानादिकं चैतदुपजीवकत्वेनोपसर्जनीक्रियत इति भावः ॥ १३ ॥ किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्वतो मुनींद्र इति॥ हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः १४ य० अस्मिन्प्रवचने आगमे हृदयस्थे सति हृदयप्रतिष्ठिते सति । हृदयस्थश्चित्तस्थस्तत्त्वतः परमार्थेन मुनींद्रः सर्वज्ञ इति कृत्वा हृदयस्थिते च तस्मिन् भगवति मुनींद्रे नियमान्नियमेन सर्वथा संसिद्धिः सर्वथा निष्पत्तिः ॥ १४ ॥ हा उ० वचनस्यैव माहात्म्यमभिष्टौति च। अस्मिन्नित्यादि । अस्मिन् वचने हृदयस्थे सति हृदयस्थःस्मृतिद्वारा तत्त्वतोमुनींद्रः। स्वतंत्रवक्तृत्वरूपतत्संबंधशालित्वात् इतिः पादसमाप्तौ। हृदयस्थिते च तस्मिन् मुनींद्रे नियमान्निश्चयेन सर्वार्थसंपत्तिर्भवति १४ Jain Education a l For Private Personal Use Only C lainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy