SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. ॥१०॥ उ० इत्यादीत्यादि । इत्याधुक्तं साधुवृत्तं मध्यमबुद्धेः सदा निरंतरं समाख्येयं प्रकाशनीयं । आगमतत्त्वं तु प्रागुक्तं परं केवलं बुधस्य भावप्रधानं तु परमार्थसारमेव समाख्येयं ॥११॥ कृतसंबंधमेव बुधोपदेशमाह ॥ वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति ॥ इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १२ ॥ य० वचनाराधनया आगमाराधनयैव खलुशब्द एवकारार्थः धर्मः श्रुतचारित्ररूपः संबध्यते (संपद्यते) तद्बाधया तु वचनबाधया त्वधर्म इति । इदमत्र विधिप्रतिषेधरूपं वचनमागमाख्यं धर्मगुह्यधर्मरहस्यं । सर्वस्वं चैतदेवास्य अस्य | धर्मस्य एतद्वचनमेव सर्वस्वं सर्वसारो वर्तत इति ॥१२॥ I उ०प्राप्तसंगतिकं बुधस्योपदेश्यमेव स्पष्ट माह । वचनेत्यादि ।वचनाराधनया खल्यागमाराधनयैव खलुशब्द एवकारार्थः। धर्मः श्रुतचारित्ररूपः संपद्यते तद्बाधया तु महाकष्टकारिणोप्यधर्म इति हेतोरिदं विधिनिषेधरूपं वचनं धर्मगुह्यं धर्मरहस्य सर्वस्वं सर्वसारश्चैतदेव वचनमेवास्य धर्मस्य ॥१२॥ | अथ किमर्थ बुधस्यैवमुपदेशः क्रियते सकलानुष्ठानोपसर्जनीभावापादनद्वारेणेत्याशंक्य तन्मूलत्वं सकलानुष्ठानानामुपदर्शयन्नाह ॥ यस्मात्प्रवर्तकं भुवि निवर्तकं चांतरात्मनो वचनं ॥ धर्मश्चैतत्संस्थो मौनींद्रं चैतदिह परमं ॥ १३ ॥ A य० यस्मात्प्रवर्तकं स्वाध्यायध्यानादिषु विधेयेषु, भुवि भव्यलोके निवर्तकं च हिंसानृतादिभ्यः सकाशादंतरात्मनो मनसो Jain Education IAtha For Private Personal Use Only dainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy