SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Jain Education आगमग्रहणस्य गुर्व्वधीनत्वात्तद्गतमप्युपदेष्टव्यमित्याह ॥ गुरुपारतंत्र्यमेव च तद्बहुमानात्सदाशयानुगतं ॥ परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति ॥ १० ॥ ० गुरुपारतंत्र्यमेव च गुर्व्वायत्तत्वं । तद्बहुमानाद्गुरुविषयाऽन्तरप्रीतिविशेषात् । सदाशयानुगतं सदाशयः संसारक्षयहेतुर्गुरुरयं ममेत्येवंभूतः कुशलपरिणामस्तेनानुगतं गुरुपारतंत्र्यं । परमगुरुप्राप्तेरिह सर्व्वज्ञप्राप्तेब्बीजं गुरुबहुमानाज्जन्मांतरे तथाविधपुण्योपादानेन सर्व्वज्ञदर्शनसंभवात् गुरुपारतंत्र्यं सर्व्वज्ञप्राप्तिबीजं भवति । तस्माच्चैवंविधाद्गुरुपारतंत्र्यान् मोक्षः ॥ १० उ० गुर्वित्यादि ॥ गुरुपारतंत्र्यमेव च गुर्वाज्ञावशवर्त्तित्वमेव च तद्बहुमानाद्गुरुविषयांतरप्रीतिविशेषान्न तु विष्टिमात्रज्ञानात् । सदाशयेन भवक्षयहेतुरयं मे गुरुरित्येवंभूतशोभनपरिणामेन नतु जात्यादिसमसंबंधज्ञानेनानुगतं सहितं परमगुरुप्राप्तेः सर्वज्ञदर्शनस्येह जगति बीजं गुरुबहुमानात्तथाविधपुण्यसंपत्त्या सर्वज्ञदर्शनसंभवात् तस्माच्च हेतोर्मोक्ष इति हेतोर्गुरुपारतंत्र्यं साधुनावश्यं विधेयमिति सोपस्कारं व्याख्येयं ॥ १० ॥ पूर्वोक्त एव वस्तुनि सद्वृत्तादौ क्रियासंबंधं दर्शयति ॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् ॥ आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥ ११॥ य० मध्य मबुद्धेरेवमादि साधुवृत्तं प्रस्तुतं । सदा समाख्येयं प्रकाशनीयं । आगमतत्त्वं तु पूर्वोक्तं परं केवलमेव बुधस्य प्रा ङ्गिरूपितस्य भावप्रधानं तु परमार्थसारं समाख्येयमिति ॥ ११ ॥ For Private & Personal Use Only *%%%%%%% jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy