SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कपारलौकिकपरमकल्याणकामैः ॥ ८ ॥ श्रीषोडश- प्रसूतिहेतुत्वेन । हितकारित्वेन च मातृत्वमवसेयं । नियमेनावश्यंभावेन । कीदृक्षैः साधुभिः कल्याणमिच्छद्भिरैहलौकिउ० ततश्च । अष्टावित्यादि । साधुभिरनिशं निरंतरमष्टौ प्रवचनस्य मातर ईर्ष्यासमित्याद्याश्चारित्रात्मनः प्रसूतिहेतुत्वेन हितकारित्वेन च मातर इव जनन्य इव नियमेनावश्यंभावेन न मोक्तव्याः । कीदृशैः साधुभिः परमं निरुपमं कल्याणं मंगलमिच्छद्भिः ॥ ८ । एतच्चसमाख्येयं ॥ प्रकरणम्. ॥९॥ एतत्सचिवस्य सदा साधोनियमान्न भवभयं भवति ॥ भवति च हितमत्यंतं फलदं विधिनाऽऽगमग्रहणम् ९ ० एतत्सचिवस्य प्रवचनमातृसहितस्य सर्वदा सर्व्वकालं साधोर्यतेर्नियमान्नियमेन न भवभयं भवति संसारभयं न जायते निःश्रेयसविषयेच्छानिष्पत्तेः । भवति च संपद्यते च । प्रवचनमातृविधानसंपन्नस्य हितं भाव्यपायपरिहारसारत्वेनात्यंतंप्रकर्षवृत्त्या फलदं फलहेतुर्विधिना विनयबहुमानादरादिना । आगमग्रहणं वाचनादिरूपेणेति ॥ ९ ॥ उ० एतदित्यादि । एतत्सचिवस्य प्रवचनमातृसहितस्य सदा सर्वकालं साधोर्नियमान्निश्चयेन न भवभयं भवति । तद्विरोध्युत्कट निःश्रेयसास्थानिष्पत्तेः । भवति च संपद्यते च प्रवचनमातृविधानसंपन्नस्य हितं भाव्यपायव्ययेनात्यंतं प्रकर्षवृत्त्या. | फलदं फलहेतुर्विधिना मंडलिनिषद्यादिरूपेण सूत्रोक्तेनागमग्रहणं वाचनादिव्यापारेणाधिकारिकर्तृकत्वात्प्रवचनमातृरहितस्य त्वतथात्वादागमग्रहणमत्यंतफलदं न भवति ॥ ९ ॥ Jain Education International For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ९ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy